Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ काव्यमाला। तद्वयमपि तदिङ्गितानुमितं पर्यालोच्य तत्प्रतिविधानाय व्याप्रियमाणा इष्टं साधयामः / (इति निष्कान्ताः सर्वे / ) . सप्तमोऽङ्कः / (ततः प्रविशति जीवराजो विज्ञानमन्त्री च ) जीवराजः-(सहर्षम् / ) - मन्त्रिस्त्वदीयमतिकौशलनौबलेन तीर्णो रणाम्बुधिरभूदतिदुस्तरोऽपि / यस्मिन्भयंकरगतिवरपाण्डुमुख्यो रोगव्रजः किल तिमिगिलतामयासीत् // 1 // किं ब्रवीमि संकुलयुद्धेऽस्मदीयानां तदीयेषु प्रवृत्तमोनायितम् / एकत्र मण्डभेदो गुटिकाभेदः परत्र मन्दाग्निम् / / निखिलामयजननकर निजपानं प्रथममिदमहमदर्शम् // 2 // अथ गुलूच्यादिपञ्चभद्रकषायं निकषा यन्नवं (2) तमवलोक्य पलायन्त पित्तसमीरज्वराः / तदनन्तरं जगदन्तरप्रसिद्धः स्वयमनश्वरसारो यक्ष्मपरिक्षपणदक्षिणः सन्नपि संननाह स्वयं त्रैलोक्यचिन्तामणिविनिपाताय संनिपातेन साकमष्टविधानामपि ज्वराणाम् / स्थावरजङ्गमगरलं ज्वरमामोत्थं व्रणोपजातं च / आरोग्यपूर्वचिन्तामणिरपि निघ्नन्मया रणे दृष्टः // 3 // ततः सर्वज्वरानपि निगृहीतवन्तं ज्वराङ्कुशमुत्तरेण गुल्मार्शः संग्रहिणीविपाटितवतो ग्रहिणीकपाटस्य पूर्वभागे या पञ्चामृतपर्पटी ग्रहिणिकायक्ष्मातिसारज्वर स्त्रीरुक्पाण्डुगदाम्लपित्तगदरुक्क्षुन्मान्धविध्वंसिनी / तामद्राक्षमहं रणे स्त्रियमपि व्यातन्वती पौरुषं चामुण्डामिव चण्डमुण्डसमरप्रक्रान्तदोर्विक्रमाम् // 4 //

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360