Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 327
________________ 6 अङ्कः] . जीवानन्दनम् / चत्वारोऽक्ष्णोर्वसन्तों नवतिरपि चतुःसप्ततिर्वक्रनिष्ठा मूर्धस्थाः पङ्क्तिसंख्याः क्रिमिगदनिवहोऽप्यस्ति नैके च शोफाः // 65 // तथा भूतोन्मादा विंशतिः / आमवात इति कोऽपि चतुर्धा जायते निखिलरोगनिवासः / वातपित्तकफशोणितमद्यक्ष्वेडजा षडुदयन्ति च मूर्जाः // 66 // अपि च। एते षोढा भिन्ना उन्मादाश्च प्रवर्तन्ते / अभिवर्तन्ते चामी हृद्रोगाः पञ्चधा भिन्नाः // 67 // विदूषकः-पमादो पमादो / एदेहिं अरिहिं दुवाराइं पाआरा परिखा कोसाआराइं अ सव्वं वि अक्कत्तम् / किं बहुजम्पिदेण / हृदयं गुम्मं करिअ अधिट्ठिदं / तिलप्पमाणो वि देसो अणकन्तो ण दीसइ / (अञ्जलिं बट्दा / ) वअस्स, अदो वरं णत्थि मे जीविदासा / मम बह्मणीए विहुराए अन्धकूवणेत्ताए तुम एव्व सुमरिअ जोअक्खेमं वहेहि / पढमं एव्व एसो अणत्यो सुणाविदो सि मए / तुम उण दुम्मन्तिणो से वअणवीसम्भेण इमं दुरवत्थं पावदो सि / पेक्ख दाव तस्स फलं एदं संवुत्तं / (क) राजा--अमात्य, संवदत्येव विदूषंकवचनम् / त्वद्बुद्धिप्रसरोऽत्र धिग्विफलितो निक्षिप्य समिपि त्वय्येवात्मधुरां मया निवसता संप्राप्तमीदृक्फलम् / वैयत्र्यं हृदि सर्वथास्मि गमितो द्वाराणि कोषालयाः प्राकाराः परिखाश्च हा निखिलमप्याक्रान्तमेवारिभिः // 68 // (क) प्रमादः प्रमादः / एतैररिभिरााण प्राकाराः परिखाः कोषागाराणि च सर्वमप्याक्रान्तम् / किं बहुजल्पितेन / हृदयं गुल्मं कृत्वा अधिष्ठितम् / तिलप्रमाणोऽपि देशोऽनाक्रान्तो न दृश्यते / वयस्य, अतःपरं नास्ति मे जीविताशा / मम ब्राह्मण्या विधुराया अन्धकूपनेत्रायास्त्वमेव स्मृत्वा योगक्षेमं वह / प्रथममेव एषोऽनर्थः श्रावितोऽस्ति मया / त्वं पुनर्दुमन्त्रिणोऽस्य वचनविशम्भेणेमां दुरवस्था प्रापितोऽसि / पश्य तावत्तस्य फलमिदं संवृत्तम् /

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360