Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 5 अङ्कः] . जीवानन्दनम् / अतः सर्वमस्मै निवेदयामि / यदयमपि तस्य पाण्डोविश्वासस्थानमेवेति / (प्रकाशम् / ) सखे, तवाप्यकथनीयं नाम किमस्ति श्रूयताम् / विज्ञानप्रहितेन राजहतकेनास्मन्निसर्गद्विषो यावत्साधयितुं रसं कथमपि ध्यानस्य सिद्ध्या क्रमात् / स्वच्छन्देन च पुण्डरीकनगरी गत्वा मनोद्वारतः / ____ साम्बस्यैव महेश्वरस्य दृढया भक्त्या प्रसादात्स्थितम् // 14 // तदिदमाकर्ण्य मन्त्रिणा पाण्डुना एतस्य विघ्नाचरणं मनसः पारतन्त्र्यं विना नोपपद्यत इति तदर्थ कामादयः षडेव प्रभवन्तीति त एव वयं प्रेषिताः / अस्माभिश्च तत्र सखिस्नेहवशादङ्गीकृतं मनसः पारतन्द्रयकरणम् / कुष्ठः-ततस्ततः। मत्सरः-ततश्च तेष्वहमेको मन्दभाग्य इमां दुरवस्थामनुभवामि / कुष्ठः-अथ कामस्य कावस्था / मत्सरः-सखे, किं कथयामि मन्त्रिहतकस्य दुर्बुद्धिविलसितम् / श्रुत्वा पित्तकफात्मपङ्गुयुगलस्पष्टोपजापं तथा हृद्रोगस्य विमोचनं च सचिवः स्वातिककराद्विस्मितः / (आकाशे लक्ष्यं बद्धा।) पाण्डो साधु भवान्यदैव परमेशाराधने साधनं चेतःस्थैर्यवदुद्यतस्तदरिणा तद्देत्तुमित्यब्रवीत् // 15 // इतःपरमपि स बुद्धिमान्पाण्डुर्मम रसौषधसेनासंधानव्यामृततां तां राज्ञ एकाकितां मनसश्चञ्चलतां निरूप्य प्रबलास्त दिनः कामादीन्प्रेषयिष्यतीति मत्वा किंकरमुखेनैव स्वनागरिकाय विचाराय नगरपर्यटनमपहाय तत्रैव कामादिभेदने सावधानेन स्थेयमिति विज्ञानमन्त्रिणा समादिष्टम् / कुष्ठः-ततो विचारेण किं कृतम् / मत्सरः-तेन च तत्सदृशबुद्धिना कामः कामपि योगकलामुत्पाद्योपजापेन ध्यानविषयतामापादितः / . कुष्ठः-हा कामस्यापि परिणतिः / अथ क्रोधस्य को वृत्तान्तः / .

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360