Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 156
________________ नेमिभक्तामरम् ] નૈમિભક્તામર टीका (( किञ्चेति पक्षान्तरे । कोऽर्थः । अनन्तरकाव्ये द्वितीयेऽर्थे मदीयचक्षुरन्यत्र तोषं नोपयातीति यदुक्तं तदर्थमेव हेत्वन्तरेण द्रढयति - हे चक्षुष्य !- हे सुभग ! " चक्षुष्यः सुभगः " इत्यभिधाचिन्तामणि (का० ३, श्लो० १११ ) वचनात् । अपरम् - अन्यद् रूपं ते तव समानं नहि अस्ति, भुवने इति शेषः । कथंभूतस्य ते ? ' राज्ञः ' राजत इति राजा तस्य महाभूपस्य । पुनः कथंभूतस्य ते ? ' महामृगेति' महामृगा - गजास्तेषां मदैः - दानवारिभिराकुलं - व्याप्तं मण्डल - देशो यस्य स तस्य । पुनः किंभूतस्य ते ? ' दैत्येति ' दैत्यारे :- वासुदेवस्य मार्गे पथि गमनं यस्य स तस्य । अथवा दैत्यारयो- देवास्तेषां मार्गे गमनं यस्य स तस्य । एतेन तवाग्रतः कृष्णोऽस्ति, अग्रगा देवाः सेवकाः सन्ति इत्यर्थः । पुनः कथंभूतस्य ते ? तमोभिः - पापैरदितः - अखण्डितस्तस्य । पुनः कथं भूतस्य ते? 'चारुचेति' चारवो मनोहराश्चतुरा - नरनारीजनास्तेषां अक्षिगतो -द्वेष्यस्तस्येति । चक्षुषे हितश्चा(च) क्षुष्यः यं दृष्ट्वा चक्षुः प्रहादं प्राप्नोति । अक्षिगतस्तु द्वेषणीयः, द्वेग्योऽक्षिगतः " (का० ३, श्लो० ११२ ) इति हैमवचनात् । अत्र विरोधः - यश्चक्षुष्यः सोऽक्षिगतः कथं स्यात् ? परिहारस्तु - चारुचतुराक्षिषु गतः स्थितः स तस्य । ते नेत्रोपरि (2) रक्षन्ति, सादरविलोकनेन वालभ्यत्वादिति । अथवा चारुनिपुणजननेत्रैः सह गतं गमनं यस्य सः, “आः रथं व्याघुट्य गतो गतः " इत्यर्थः । अत्र लुप्तौपम्यत्वात् कथंभूतस्य ते तव कस्येव ? राज्ञः - चन्द्रस्येव यथा राज्ञः - चन्द्रस्य समानं अपरं रूपं नास्ति । कथंभूतस्य राज्ञः ? महामृगो लक्ष्मस्वरूपहरिणः तस्य मदेन - कस्तूरिकया आकुलं मण्डलं यस्य स तस्य । अथवा महामृग (मद १) शब्देन उपलक्षणत्वात् कस्तूरिकादिसुगन्धद्रव्यैराकुलं मण्डलं यस्य स तस्य । देवस्थानं सुगन्धद्रव्य मिश्रितमेव स्यादिति । पुनः कथंभूतस्य राज्ञः ? दैत्यारीणां देवानां मार्ग - आकाशस्तस्मिन् गमनं यस्य स तस्येति । पुनः कथंभूतस्य राज्ञः १ तमायां- रात्रौ उदितः - उदयं प्राप्तः । अथवा तमोभिः - अन्धकारैरैदितः-अखण्डितः । अथवा तमसा-राहुणाऽदितः - अखण्डितः, राहुणा मुक्तस्येति, शेषं तथैव विशेषणम् । पुनः राज्ञः - इन्द्रस्येव, इन्द्रपक्षेऽपि महामृग ऐरावण इत्यादि यथोचितयोजना कर्तव्येति ॥ १२ ॥ 3 अन्वयः किञ्च (t) चक्षुष्य ! यद् महत्-मृग-मद-आकुल- मण्डलस्य, दैत्य-अरि-मार्ग - गमनस्य, तमल-अदितस्य [ अथवा तमा- उदितस्य ], चारु चतुर- अक्षिगतस्य [ अथवा चारु - चतुर - अक्षि- गतस्य ) ] ते समानं अपरं रूपं न हि अस्ति । શબ્દા राज्ञः ( मू० राजन् )=( १ ) नृपतिना; ( २ ) यन्द्रना; 3) Yello महामृग = (१) डाथी; (२) (सांछन३पी ) २५; (3) मस्तूरी ( उपलक्षणार्थे ? ). मद=(१) धान-०४स; (२) स्तूरी. आकुल-व्यात. मण्डल = (१) मिम्स; (२) हेश. १ आकाशशब्दः पुल्लिङ्गोऽप्यस्ति । Jain Education International ११७ महामृगमदाकुलमण्डलस्य = (१) मुंबराना भह वडे व्याप्त छे हेश नेता खेवा; (२) (सांछन३५ ) મૃગની કસ્તૂરી [ અથવા કસ્તૂરી પ્રમુખ બીજા સુગન્ધી પદા] વડે વ્યાપ્ત છે મણ્ડલ જેનું એવા. दैत्य = धानव. अरि=शत्रु, हुश्मन. दैत्यारि = (१) हेव; (२) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224