Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 205
________________ १६१ भक्तामरस्तोत्रम् स्तवनविरचनप्रयरनेकारणमाह सोऽहं तथापि तव भक्तिवशान्मुनीश ! __ कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र ___ नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ निजासामर्थेऽपि वाचालताकारणमाह अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुर विरौति तच्चारुचूतकलिकानिकरैकहेतुः॥६॥ स्तवनग्रन्थने यो गुणस्तमाहत्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ स्तवारम्भसामर्थ्य दृढयन्नाह मत्वेति नाथ ! तव संस्तवनं मयेद___ मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥ सर्वज्ञकथाप्रभावं प्रदर्शयन्नाह आस्तां तव स्तवनमस्तसमस्तदोषं __त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकाशभाजि ॥ ९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224