Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१६७
श्रीमानतुझसूरिकृतम् भगवद्गुणोत्कीर्तनफलमाह
नात्यद्भुतं भुवनभूषणभूत ! नाथ ! __ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा
__ भूत्याश्रितं य इह नात्मसमं करोति ? ॥१०॥ भगवदर्शनफलमाहदृष्ट्वा भवन्तमनिमेषविलोकनीय
नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः
क्षार जल जलनिधे रसितुं क इच्छेत् ? ॥ ११॥ भगवद्रूपवर्णनमाह
यैः शान्तरागरुचिभिः परमाणुभिस्त्वं
निर्मापितस्त्रिभुवनैकललामभूत !। तावन्त एव खलु तेऽप्यणवः पृथिव्यां
__ यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ जिनमुखवर्णनमाह
वक्त्रं क्व ते सुरनरोरगनेत्रहारि
निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ भगवद्गुणानां व्यातिमाहसम्पूर्णमण्डलशशाङ्ककलाकलाप
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं
कस्तान निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ १'भूषण । भूतनाय ।' इत्यपि पाठः समीचीनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224