Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 208
________________ श्रीमानतुङ्गसूरिकृतम् ज्ञानद्वारेणान्यदेवाँस्तिरस्कुर्वन्नाह ज्ञानं यथा त्वयि विभाति कृतावकाशं __ नैवं तथा हरिहरादिषु नायकेषु । 'तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशंकले किरणाकुलेऽपि ॥ २० ॥ निन्दास्तुतिमाह मन्ये वरं हरिहरादय एव दृष्टा ___दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ जिनजननीप्रशंसाद्वारेण भगवद्वर्णनमाहस्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ परमपुंस्त्वेन स्तुतिमाह त्वामामनन्ति मुनयः परमं पुमांस____ मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३ ॥ सर्वदेवनाम्ना जिनं नुवन्नाहत्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमैनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ १ 'तेजो यथा ब्रजति जात्यमणौ महत्त्वं' इति पाठान्तरम् । २'शकलेषु रुचाकुलेषु' इत्यपि पाटः। ३ मदनस्य विनाशहेतुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224