________________
श्रीमानतुङ्गसूरिकृतम् ज्ञानद्वारेणान्यदेवाँस्तिरस्कुर्वन्नाह
ज्ञानं यथा त्वयि विभाति कृतावकाशं __ नैवं तथा हरिहरादिषु नायकेषु । 'तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काचशंकले किरणाकुलेऽपि ॥ २० ॥ निन्दास्तुतिमाह
मन्ये वरं हरिहरादय एव दृष्टा ___दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ जिनजननीप्रशंसाद्वारेण भगवद्वर्णनमाहस्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररश्मि
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ परमपुंस्त्वेन स्तुतिमाह
त्वामामनन्ति मुनयः परमं पुमांस____ मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३ ॥ सर्वदेवनाम्ना जिनं नुवन्नाहत्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमैनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
१ 'तेजो यथा ब्रजति जात्यमणौ महत्त्वं' इति पाठान्तरम् । २'शकलेषु रुचाकुलेषु' इत्यपि पाटः। ३ मदनस्य विनाशहेतुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org