________________
१६८
भक्तामरस्तोत्रम्
भगवन्नीरागतामाहचित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन
किं मन्दरादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ भगवतो दीपेनोपमा निरस्यन्नाहनिर्धूमवर्तिरपवर्जिततैलपूरः
कृत्वं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः॥ १६ ॥ सूर्येणौपम्यनिरासमाह
नास्तं कदाचिदुपयासि न राहुगम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः
___ सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ विशेषाञ्चन्द्रोपमा निरस्यन्नाह
नित्योदयं दलितमोहमहान्धकार ___ गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ भगवन्मुखेन्दुपुरतः सूर्याचन्द्रमसोनिष्प्रयोजनत्वं सूचयनाहकिं शर्वरीषु शशिनाऽह्नि विवस्वता वा
युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ !। निष्पन्नशालिवनशालिनि जीवलोके
कार्य कियज्जलधरैर्जलभारननैः ? ॥ १९ ॥
मन्दरो मेका Jain Education International
For Private & Personal Use Only
www.jainelibrary.org