SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६७ श्रीमानतुझसूरिकृतम् भगवद्गुणोत्कीर्तनफलमाह नात्यद्भुतं भुवनभूषणभूत ! नाथ ! __ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा __ भूत्याश्रितं य इह नात्मसमं करोति ? ॥१०॥ भगवदर्शनफलमाहदृष्ट्वा भवन्तमनिमेषविलोकनीय नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षार जल जलनिधे रसितुं क इच्छेत् ? ॥ ११॥ भगवद्रूपवर्णनमाह यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत !। तावन्त एव खलु तेऽप्यणवः पृथिव्यां __ यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ जिनमुखवर्णनमाह वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ भगवद्गुणानां व्यातिमाहसम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ १'भूषण । भूतनाय ।' इत्यपि पाठः समीचीनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004888
Book TitleKavya Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy