Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१७०
भक्तामरस्तोत्रम्
अर्थान्तरकरणेनान्यदेवनाम्ना जिनं स्तुवन्नाहबुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात
त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेविधानाद
___ व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥ जिनं नमनाह
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! __ तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय
__तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ पुनर्निन्दास्तुतिमाह
को विस्मयोऽत्र यदि नाम गुणैरशेषै__स्त्वं संश्रितो निरवकाशतया मुनीश !। दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ कियत्प्रातिहार्यप्रकटनैर्जिनं स्तुवन्नाह
उच्चैरशोकतरसंश्रितमुन्मयूख___ माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं
बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥ २८ ॥ पुनरपि भगवद्वपुर्वर्णनमाह
सिंहासने मणिमयूखशिखाविचित्रे ___ विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियहिलसदंशुलतावितानं
तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥ १ 'विबुधाश्रयः' इति पाठः क्वचित् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224