Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 176
________________ नेमिभक्तामरम् ] નેમિભક્તામર १३७ રક્ષણાર્થે એક યુગ (સરા) જેટલી અગ્ર દષ્ટિ રાખી ચાલવું. ભાષા-સમિતિથી એ સમજવાનું કે બેલતી વખતે સાવચેત રહેવું અર્થાતુ અહિતકારી કે પાપમય વચન બોલવું નહિ. એષણ સમિતિનું તાત્પર્ય એ છે કે શાસ્ત્રમાં જે વસ્તુઓ ભક્ષ્ય અને પેય ગણવામાં આવી હોય તે ગ્રહણ કરવી અર્થાત્ પ્રાસુક આહાર પાણી લેવા. આદાન-નિપ-સમિતિને અર્થ એ છે કે વસ્ત્ર તેમજ પાત્ર લેતાં મૂકતાં ભૂમિનું નિરીક્ષણ અને પ્રમાર્જન કરી તેમ કરવું. પારિષ્નાપનિકાસમિતિનો અર્થ એ છે કે મલમૂત્રને યોગ્ય ભૂમિએ ત્યાગ કરે. पूर्व प्रभो ! प्रबलपूरितपाञ्चजन्यः ___ के प्रेङिताच्युतभुजो हसितोऽस्य दारैः । मौनं श्रितः परिणये विमुखोऽधुनैवं तुभ्यं नमो जनभवोदधिशोषणाय ! ॥२६॥ टीका हे प्रभो ! पूर्व-प्रथमं भवान् ‘प्रबलपूरितपाञ्चजन्यः' प्रबलेन-शौर्येण पूरितो-मातः पाश्चजन्यो-चासुदेवशङ्खो येन स इति अभवत् । ततोऽनन्तरं भवान् के-प्रकाशेर्थात् प्रकाशयुक्ते मल्लाक्षाटके प्रेसिताच्युतभुजो-चालितकृष्णहस्तोऽभवत् । ततोऽनन्तरं कशब्दोऽत्रानुवर्तनीयः तेन के-जले जलाश्रये इत्यर्थः । अस्य कृष्णस्य दारैः सत्यभामादित्रीभिर्भवान् हसितः-हास्यं नीतः। ततोऽनन्तरं भवान् परिणये-विवाहमेलननिमित्तं मौनं श्रितः-गृहीतमानोऽभवत् । ततोऽनन्तरमधुना-साम्प्रतम् एवंप्रकारः कोऽर्थः ? तोरण आगतः पाणिग्रहणमकृत्वा पश्चाद् वलितः, संवत्सरदानं दत्वा व्रतं गृहीत्वा रेवतके योगासक्त इत्यर्थः । एवंशब्दः प्रकारार्थः । हे जनभवोदधिशोपणाय ! जनानां संसारसमुद्रशोपणे आयो-लाभो यस्य सः । अथवा जनो-मल्लक्षणस्तस्य भवः--जन्म स एवोदधिः-समुद्रस्तस्य शोषणे-स्थलकरणे आयो-लाभो यस्य स तस्य संबोधने इति । वियोगिनामेकाऽपि घटिका कल्पान्तकालोपमा भवति, अतो भवोदधीत्युक्तं युक्तम् । हे नेमे ! तुभ्यं नमः- नमस्कारोऽस्तु । एतेन त्वं शिक्षायोग्यो न, अहं तु शिक्षाकथनेन थकिता इति अत्यन्ततिरस्कृत्यलङ्कारोऽयम् , यदुक्तं नैषधे "मुखरय स्वयशोनवडिण्डिमं जलनिधेः कुलमुज्ज्वलयाधुना । अपि गृहाण वधूवधपौरुषं हरिणलाञ्छन ! मुश्च कदर्थनाम् ॥ १॥" इति ॥ २६ ॥ १ 'रैवतके ' इत्यधिकः ख-पाठः ! Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224