________________
नेमिभक्तामरम् ] નેમિભક્તામર
१३७ રક્ષણાર્થે એક યુગ (સરા) જેટલી અગ્ર દષ્ટિ રાખી ચાલવું. ભાષા-સમિતિથી એ સમજવાનું કે બેલતી વખતે સાવચેત રહેવું અર્થાતુ અહિતકારી કે પાપમય વચન બોલવું નહિ. એષણ સમિતિનું તાત્પર્ય એ છે કે શાસ્ત્રમાં જે વસ્તુઓ ભક્ષ્ય અને પેય ગણવામાં આવી હોય તે ગ્રહણ કરવી અર્થાત્ પ્રાસુક આહાર પાણી લેવા. આદાન-નિપ-સમિતિને અર્થ એ છે કે વસ્ત્ર તેમજ પાત્ર લેતાં મૂકતાં ભૂમિનું નિરીક્ષણ અને પ્રમાર્જન કરી તેમ કરવું. પારિષ્નાપનિકાસમિતિનો અર્થ એ છે કે મલમૂત્રને યોગ્ય ભૂમિએ ત્યાગ કરે.
पूर्व प्रभो ! प्रबलपूरितपाञ्चजन्यः ___ के प्रेङिताच्युतभुजो हसितोऽस्य दारैः । मौनं श्रितः परिणये विमुखोऽधुनैवं तुभ्यं नमो जनभवोदधिशोषणाय ! ॥२६॥
टीका हे प्रभो ! पूर्व-प्रथमं भवान् ‘प्रबलपूरितपाञ्चजन्यः' प्रबलेन-शौर्येण पूरितो-मातः पाश्चजन्यो-चासुदेवशङ्खो येन स इति अभवत् । ततोऽनन्तरं भवान् के-प्रकाशेर्थात् प्रकाशयुक्ते मल्लाक्षाटके प्रेसिताच्युतभुजो-चालितकृष्णहस्तोऽभवत् । ततोऽनन्तरं कशब्दोऽत्रानुवर्तनीयः तेन के-जले जलाश्रये इत्यर्थः । अस्य कृष्णस्य दारैः सत्यभामादित्रीभिर्भवान् हसितः-हास्यं नीतः। ततोऽनन्तरं भवान् परिणये-विवाहमेलननिमित्तं मौनं श्रितः-गृहीतमानोऽभवत् । ततोऽनन्तरमधुना-साम्प्रतम् एवंप्रकारः कोऽर्थः ? तोरण आगतः पाणिग्रहणमकृत्वा पश्चाद् वलितः, संवत्सरदानं दत्वा व्रतं गृहीत्वा रेवतके योगासक्त इत्यर्थः । एवंशब्दः प्रकारार्थः । हे जनभवोदधिशोपणाय ! जनानां संसारसमुद्रशोपणे आयो-लाभो यस्य सः । अथवा जनो-मल्लक्षणस्तस्य भवः--जन्म स एवोदधिः-समुद्रस्तस्य शोषणे-स्थलकरणे आयो-लाभो यस्य स तस्य संबोधने इति । वियोगिनामेकाऽपि घटिका कल्पान्तकालोपमा भवति, अतो भवोदधीत्युक्तं युक्तम् । हे नेमे ! तुभ्यं नमः- नमस्कारोऽस्तु । एतेन त्वं शिक्षायोग्यो न, अहं तु शिक्षाकथनेन थकिता इति अत्यन्ततिरस्कृत्यलङ्कारोऽयम् , यदुक्तं नैषधे
"मुखरय स्वयशोनवडिण्डिमं
जलनिधेः कुलमुज्ज्वलयाधुना । अपि गृहाण वधूवधपौरुषं
हरिणलाञ्छन ! मुश्च कदर्थनाम् ॥ १॥" इति ॥ २६ ॥
१ 'रैवतके ' इत्यधिकः ख-पाठः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org