Book Title: Kamghat Kathanakam
Author(s): Gangadhar Mishr
Publisher: Nagari Sahitya Sangh

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra ८४ ( संस्कृत छाया ) - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री कामघट कथानकम अष्टैव च अष्ट शतानि अष्ट सहस्रं च अष्ट कोटिः । यो गणयति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानम् ॥ ५८ ॥ जो व्यक्ति भक्तिपूर्वक नमस्कार मंत्र को आठ करोड़, आठ हजार, आठ सौ और आठ बार गिनता ( जपता ) है, वह शाश्वत पद ( कैवल्यपद-मोक्षपद ) को प्राप्त होता है ॥ ५८ ॥ For Private And Personal Use Only अथ सोऽमात्यः समुद्रतटादग्रे भ्रमन्सन् कमनीयतरमेकं नगरं शून्यं दूरतो ददर्श । ततः शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्नविद्रुममौक्तिकस्वर्णादि विविधवस्तुऋयाणकापूर्णापणश्रेणीं सतोरणां मन्दिरधोरणीं चालोक्य मनसि वाढं चमच्चकार । साहसेनैकाक्येव नगरमध्ये व्रजन् स राजमन्दिरे सप्तमभूमिकोपरि गतः । तत्र खट्वोपर्येकामुष्ट्रिकां तथैव च तत्र स कृष्णश्वेताञ्जनभृतं कूपिकाद्वयं ददर्श । तद् दृष्ट्वा विस्मितः सन् सकौतुकं श्वेतांजनेनोष्टिकाया नयनेऽञ्जनं चकार, तत्प्रभावाच्च सा दिव्यरूपा मानुषी जज्ञे । तत्क्षणमेव तस्मै तयाऽऽसनं दत्तम्, ततो मन्त्रिणा सा पृष्टा - अयि चन्द्रवदने ! का त्वं १ कथमेवंविधा ते दशा ? किमिदं नगरं ? कुत: कारणाच्च शून्यं वर्तते ? इति श्रुत्वा सा कन्या निजनेत्राभ्यामश्रुपातं कुर्वती प्राह-भो नरपुङ्गव ! त्वमितः शीघ्रं याहि यतोऽत्रैका राक्षसी विद्यते सा यदि द्रक्ष्यति तर्हि त्वां भक्षयिष्यति । तदा मन्त्रिणा पुनरपि पृष्टा - हे सुलोचने ! सा का राक्षसी ? इत्यादि समस्तं वृत्तान्तं त्वं स्पष्टतरं कथय । साऽऽह - हे पुरुषोत्तम ! त्वं शृणु - अस्य नगरस्य स्वामी भीमसेनो राजाऽहं च तत्पुत्री रत्नसुन्दरीनाम्नी स मे पिता तु तापसभक्त आसीत् । एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतवान्, स च मत्पित्रा भोजनाय निमन्त्रितः, अहं च राज्ञा तस्य परिवेषणायाऽऽदिष्टा। ततः स मद्रूपं दृष्ट्वा चुक्षोभ, रात्रौ च मत्समीपे तस्करवृच्या समागच्छन् स प्राहरिकैर्धृत्वा बद्धः, नातच नृपस्य समर्पितः राज्ञा च स शूल्यामारोपितः, तेनार्त्तध्यान मृत्वा राक्षसी बभूव । तया चेदं नगरमुद्वासितं विधाय पूर्ववैरेण राजापि व्यापादितः, तद् दृष्ट्वा नगर लोकास्सर्वेऽपि भयभ्रान्ताः पलायनं चक्रुरिति नगरं शून्यं जातम् । पूर्वभवमहामोह भावतोऽहं तया एवं रक्षिता, कृष्णाञ्जनेनोष्ट्रीरूपेण स्थापिता, प्रतिदिनं च सा राक्षसी मत्सत्कार शुश्रूषा करणार्थमत्र समागच्छति, अतस्त्वं प्रच्छन्नो भव, यतः सा राक्षसी संप्रत्येव समागमिष्यति । पुनरेकदा -सा राक्षसी मया पृष्टा - हे मातः अहमत्रारण्यसदृशे सौधेऽप्येकाकिनी किं करोमि ? अतस्त्वं मां

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134