Book Title: Kamghat Kathanakam
Author(s): Gangadhar Mishr
Publisher: Nagari Sahitya Sangh

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ मूढस्तु पाथेयमात्रमपि श्री कामघट कथानकम दीर्घ - परलोक - पथ - प्रयाणे, नैव च लात्यधन्यः ॥ १॥ प्रायः सभी लोग दूसरे दूर गांव में जब जाते हैं, तब, कुछ न कुछ रास्ता का खर्चा अवश्य लेकर जाते हैं, यह बात लोक में प्रसिद्ध है, किन्तु बहुत-से महा मूर्ख अभागे परलोक गमन रूपी लम्बी मुसाफिरी के लिए थोड़ा भी रास्ता-खर्चा ( सद्धर्म-सम्यक्त्व-सम्यक् धर्म ) नहीं ग्रहण करते ॥१॥ - ततो राज्ञा पृष्टम्-हे भगवन् ! मया पूर्वभवे किं कर्म कृतम् ! येन मे धर्मोऽत्र नाभीष्टो जातः, अनेन च सचिवेन कीदृशं कर्म कृतम् ? येनेदृशी महती समृद्धिः पदे पदे प्राप्ता । ततः केवली पाह-हे राजन् ! युवयोः पूर्वभवसंवन्धिनिखिलवृत्तान्तो मया निगद्यते, अतः सावधानत्वेन शृणुताम्-युवा पूर्वभवे सुन्दरपुरन्दरनामानौ भ्रातरावेवाभवताम् । सुन्दरस्तु मिथ्यात्वमोहितत्वादज्ञानकष्टकर्ता तापसो जातस्तत्र वनस्पतिच्छेदनभेदनजलक्रीडादिदुष्कर्मणा पुनर्भृशं मिथ्यामतिसंगं प्राप्याज्ञानतपसा च सर्वाणीन्द्रियाणि वशीचकार । अङ्गारधानिकां शुष्कगोमयं वनफलपुष्पाणि मृत्तिका विभूति च प्रत्यहमुपयुज्य जटाधरोऽवधूतोऽभूत् । ऊध्येबाहुस्तथैवाधोमुखो भूत्वाऽज्ञानतपसा पंचानीन् साधयति स्म । मौनमेव सदा रक्षति स्म, पुनर्भवान् केशांश्च वधेयति स्म, कन्दमूलानि संभक्ष्य २ कायं कृशीकरोति स्म। षट्कायजीवान् विराधयति स्म, दया तु न कदाऽपि हृदये धारयति स्म. शौचधर्ममहर्निशं समाद्रियते स्म । एवं मिथ्यात्वानुवन्धिनी पापक्रियां समाचरन्नायुषः क्षये मृत्वाऽज्ञानतपसोऽनुभावादयं त्वं पापबुद्धिनामा राजाऽभूः। पुनः पुरन्दरस्तु जैनसाधुसंगत्या तदुपदेशानुसारेण जिनप्रासादं कारयितुं प्रारंभं कृतवान, अर्द्धनिष्पन्ने च जिनप्रासादे तेनैवंविधः संशयः कृतो यन्मया सहस्रशो द्रव्यव्ययं कृत्वा प्रासादं कारयितुं प्रारन्धमस्ति, परमेतन्निर्मापणेन मे किमपि फलं भविष्यति नवेति संशयकरणानन्तरं पुनस्तेन चिन्तितम्–हा ! मया व्यलीकं ध्यातम् , यतो:देवनिमित्रं कृतं कार्य कदाऽपि निष्फलं न यातीति मे प्रासादनिर्माणफलं भविष्यत्येवेति विचिन्त्य तेन नैर्मल्यपूर्णभावेन तं जिनप्रासादं समाप्य ततः कस्यचिद् ज्ञानवतः सद्गुरोःसनिधौ महोत्सवपूर्वकं बहुद्रव्यन्ययेन सांजनशलाका प्रतिष्ठां विधाय जिनबिम्बानि स्थापितानि । तथैवान्यमपि श्रीजैनधर्मोन्नतिजिनप्रासादबिम्बप्रतिष्ठातीर्थयात्रागुरुभक्तिसाधर्मिकवात्सल्यपौषधशालानेकदीनदानादिबहुविध धर्म कृत्वा, ततोऽन्ते निजायुषःक्षये स पुरन्दरजीवस्तु सुखसमा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134