Book Title: Jaina Tarka Bhasha
Author(s): Dayanand Bhargava
Publisher: Motilal Barasidas Pvt Ltd

Previous | Next

Page 25
________________ . १. प्रमाणपरिच्छेदः । [ ४. मविज्ञानस्य अत्रग्रहादिभेदेन चातुर्विध्यप्रकटनम् । ] ६६. मतिज्ञानम् - अवग्रहेहापायधारणाभेदाश्चतुर्विधम् । अवकृष्टो ग्रहः - अनग्रहः । स द्विविधः - व्यञ्जनावग्रहः, अर्थावग्रहश्च । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम् -कदम्बपुष्पगोलकादिरूपाणामन्तर्निर्वृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुशक्तिविशेषलक्षणसुपकरणेन्द्रियम्, शब्दादिपरिणतद्रव्य निकुरुम्बम्, तदुभयसम्बन्धथ । 5 ततो व्यञ्जनेन व्यञ्जनस्यावग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः । अथ अज्ञानम् अयं बधिरादीनां श्रोत्रशब्दादिसम्बन्धवत् तत्काले ज्ञानानुपलम्भादिति चेत् ; न; ज्ञानोपादानत्वेन तत्र ज्ञानत्वोपचारात्, अन्तेऽर्थावग्रहरूपज्ञानदर्शनेन तत्कालेऽपि चेष्टाविशेषाद्यनुमेयस्वमज्ञानादितुल्याव्यक्तज्ञान्तनुमानाद्वा एकतेजोऽवयववत् तस्य तनु त्वेनानुपलक्षणात् । [ ५. व्यञ्जनावग्रहस्य चातुर्विध्यप्रदर्शने मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् । ] ६७. स च नयन- मनोवर्जेन्द्रिय मेदाच्चतुर्धा, नयन- मनसोरप्राप्यकारित्वेन ध्य ञ्जनावग्रहासिद्धेः, अन्यथा तयोर्ज्ञेय कृतानुग्रहोपघातपात्रत्वे जलानलदर्शन - चिन्तनयोः क्लेद-दाह्मपत्तेः । रवि-चन्द्राद्यवलोकने चक्षुषोऽनुग्रहोपघातौ दृष्टावेवेति चेत्; न; प्रथमावलोकनसमये तददर्शनात्, अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्या - 15 (स्य), नैसर्गिक सौम्यादिगुणे चन्द्रादौ चावलोकिते उपघाताभावादनुग्रहाभिमानस्योपपत्तेः । मृतनष्टादिवस्तुचिन्तने, इष्टसङ्गमविभवलाभादिचिन्तने च जायमानौ दौर्बल्योर:क्षतादि-वदन विकासरोमाञ्श्चोद्गमादिलिङ्गकावुपघातानुग्रहौ न मनसः, किन्तु मनस्त्व परिणतानिष्टेष्टपुद्गल निचयरूपद्रव्यमनोऽवष्टम्भेन हृन्निरुद्धवायु भेषजाभ्यामिव जीवस्यैवेति न ताभ्यां मनसः प्राप्यकारित्वसिद्धिः । ननु यदि मनो विषयं प्राप्य न परिच्छिनत्ति तदा 20 कथं प्रसुप्तस्य 'मेर्वादौ गतं मे मनः' इति प्रत्यय इति चेत्; न; मेर्वादौ शरीरस्येव मनसो गमनस्वप्रस्यासत्यत्वात्, अन्यथा विबुद्धस्य कुसुमपरिमलाद्यध्वजनितपरिश्रमाधनुग्रहोपघातप्रसङ्गात् । ननु स्वमानुभूत जिनस्नात्र दर्शन- समीहितार्थाला भयोरनुग्रहोपघातौ विबुध(द्ध)स्य सतो दृश्येते एवेति चेत् ; दृश्येतां स्वमविज्ञानकृतौ तौ, स्वमविज्ञानकृतं क्रियाफलं तु तृप्त्यादिकं नास्ति, यतो विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्येतेति ब्रूमः । 25 क्रियाफलमपि स्वप्ने व्यञ्जनविसर्गलक्षणं दृश्यत एवेति चेत् ; तत् तीव्राध्यवसाय कृतम्, न तु कामिनी निधुवनक्रियाकृतमिति को दोषः ९ ननु स्त्यानर्धिनिद्रोदये गीतादिकं शृण्वतो व्यञ्जनावग्रहो मनसोऽपि भवतीति चेत्; न; तदा स्वमाभिमानिनोऽपि श्रवणाद्यवग्रहेणैवोपपत्तेः । ननु 'च्यवमानो न जानाति' इत्यादिवचनात् सर्वस्यापि छद्मस्थोपयोगस्यासत्येय समयमानत्वात्, प्रतिसमयं च मनोद्रव्याणां ग्रहणात् विषयमस- 30 म्प्राप्तस्यापि मनसो देहादनिर्गतस्य तस्य च स्वतभिहितहृदयादिचिन्तनवेलायां कथं 10

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198