Book Title: Jaina Tarka Bhasha
Author(s): Dayanand Bhargava
Publisher: Motilal Barasidas Pvt Ltd

Previous | Next

Page 31
________________ १. प्रमाणपरिच्छेदः। न चेदमप्रमाणम्, प्रत्यक्षादिवत् अविसंवादकत्वात् । अतीततत्तांशे वर्तमानत्वविषय. त्वादप्रमाणमिदमिति चेत; न सर्वत्र विशेषणे विशेष्यकालभानानियमात् । अनुभवप्रमात्वपारतन्यादत्राप्रमात्वमिति चेत् ; न; अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणाप्रमात्वप्रसङ्गात् । अनुमितेरुत्पत्तौ परापेक्षा, विषयपरिच्छेदे तु खातन्त्र्यमिति चेत्, न; स्मृतेरप्युत्पत्तावेवानुभवसव्यपेक्षत्वात् , खविषयपरिच्छेदे तु स्वातन्त्र्यात् । । अनुभवविषयीकृतभावावभासिन्याः स्मृतेविषयपरिच्छेदेऽपि न खातन्त्र्यमिति चेत् । तर्हि व्याप्तिज्ञानादिविषयीकृतानन् परिच्छिन्दत्या अनुमितेरपि प्रामाण्यं द्रत एव । नैयत्येनाऽमात एवार्थोऽनुमित्या विषयीक्रियत इति चेत् तर्हि तत्तयाऽभात एवार्थः स्मृत्या विषयीक्रियत इति तुल्यमिति न किञ्चिदेतत् । [ १३. प्रत्यभिज्ञानस्य निरूपणम् । ] ___10 ६२५. अनुभवस्मृतिहेतुकं तिर्यगूर्खतासामान्यादिगोचरं सकलनात्मकं ज्ञानं प्रत्य. भिज्ञानम् । यथा 'तजातीय एवायं गोपिण्डः' 'गोसदृशो गवयः' 'स एवायं जिनदत्तः' 'स एवानेनार्थः कथ्यते' 'गोविलक्षणो महिलः' 'इदं तस्माद् दूरम्' 'इदं तस्मात् समीपम्' 'इदं तस्मात् प्रांशु हस्वं बा' इत्यादि । २६. तत्तेदन्तारूपस्पष्टास्पष्टाकारमेदामेकं प्रत्यभिज्ञानस्वरूपमस्तीति शाक्य:; 15 तन आकारभेदेऽपि चित्रज्ञानवदेकस्य तस्यानुभूयमानत्वात् , स्वसामग्रीप्रभवस्यास्य . वस्तुतोऽस्पष्टैकरूपत्वाच, इदन्तोल्लेखस्य प्रत्यभिज्ञानिवन्धनत्वात् । विषयाभावाने दमस्तीति चेत् । न पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्यैतद्विषयत्वात् । अत एव 'अगृहीतासंसर्गकमनुमवस्मृतिरूपं शानद्वयमेवैतद्' इति निरस्तम् । इत्थं सति विशिष्टज्ञानमात्रोच्छेदापत्तेः। तथापि 'अक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवेदं 20 मुक्तम्' इति केचित् ; तम; साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्यासिद्धेः, प्रत्यभिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनानुभूयमानत्वात् , अन्यथा प्रथमव्यक्तिदर्शनकालेऽप्युत्पत्तिप्रसङ्गात् । ६२७. अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पमस्मृतिसहायमिन्द्रियं प्रत्यमिज्ञानमुत्पादयतीत्युच्यते; तदनुचितम् । प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । अन्यथा 25 पर्वते वहिज्ञानस्यापि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ अनुमानस्याप्युच्छेदप्रसङ्गात् । किञ्च, 'प्रत्यभिजानामि' इति विलक्षणप्रतीतेरप्यतिरिक्तमेतत् , एतेन 'विशेष्येन्द्रियसनिकर्षसत्त्वाद्विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपमेतदुपपद्यते' इति निरस्तम्, 'एतत्सदृशः सः' इत्यादौ तदभावात्, स्मृत्यनुभवसहलनक्रमस्यानुभविकत्वाचेति दिक् । 30

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198