Book Title: Jaina Tarka Bhasha Author(s): Dayanand Bhargava Publisher: Motilal Barasidas Pvt LtdPage 30
________________ जैनधर्कभाषा । क्रमेणाल्पीभवद्विषयं हीयमानम्, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत् यथा अपनीतेन्धनाग्निज्वाला परिहीयते तथा इदमपीति । उत्पय्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवत्, यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते तथा इदमपि । आ केबलप्राप्तेः आ मरणाद्वा अवतिष्ठमानम् अप्रतिपाति, वेदवत्, यथा पुरुषवेदादिरापुरुषा5 दिपर्यायं तिष्ठति तथा इदमपीति । [ १०. मनः पर्यवज्ञानस्य निरूपणम् । ] १२०. मनोमात्रसाक्षात्कारि मनः पर्यवज्ञानम् । मनःपर्यायानिदं साक्षात्परिच्छेतुमलम्, बाह्यानर्थान् पुनस्तदन्यथाऽनुपपरयाऽनुमानेनैव परिच्छिनतीति द्रष्टव्यम् । तद् द्विविधम्-ऋजुमति- विपुलमति मेदात् । ऋज्वी सामान्य ग्राहिणी मतिः ऋजुमतिः । 10 सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मन:पर्यायदर्शनप्रसङ्गात् । विपुला विशेषग्राहिणी मतिर्विपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यत इति । एते च द्वे ज्ञाने विकलविषयत्वाद्विकलप्रत्यक्षे परिभाष्येते । [ ११. केवलज्ञानस्य निरूपणम् । ] 15 २१. निखिलद्रव्यपर्यायसाक्षात्कारि केवलज्ञानम् । अत एवैतत्सकलप्रत्यक्षम् । तञ्चावरणक्षयस्य हेतोरैक्याद्भेदरहितम् । आवरणं चात्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वात्, असर्वविषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्व | आवरणस्य च कर्मणो विरोधिना सम्यग्दर्शनादिना विनाशात् सिद्ध्यति कैवल्यम् । 20 २२. 'योगजधर्मानुगृहीतमनोजन्यमेवेदमस्तु' इति केचित् ; तन; धर्मानुगृहीतेनापि मनसा पञ्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् । ९२३. 'कवलभोजिनः कैवल्यं न घटते' इति दिक्पटः; तन्नः आहारपर्याप्त्यसातवेदनीयोदयादिप्रभूतया कवलभुक्तया कैवल्याविरोधात्, घातिकर्मणामेव तद्विरोधित्वात् । दग्धरज्जुस्थानीयाचतो न तदुत्पतिरिति चेत्; नन्वेवं तादृशादायुषो 25 भवोपग्रहोऽपि न स्यात् । किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भगवतः स्यात् । अनन्तवीर्यत्वेन तां विना तदुपपत्तौ छद्मस्थावस्थायामप्यपरिमित बलत्वश्रवणाद् भुक्त्यभावः स्यादित्यन्यत्र विस्तरः । उक्तं प्रत्यक्षम् । [ १२. परोक्षं लक्षयित्वा पञ्चधा विभज्य च स्मृतेर्निरूपणम् । ] ९ २४. अथ परोक्षमुच्यते-अस्पष्टं परोक्षम् । तच्च स्मरण- प्रत्यभिज्ञान- तर्कानुमाना30 ऽऽगम मेदतः पञ्श्चप्रकारम् । अनुभवमात्रजन्यं ज्ञानं स्मरणम्, यथा तत् तीर्थकरबिम्बम् ।Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198