________________
जैनधर्कभाषा ।
क्रमेणाल्पीभवद्विषयं हीयमानम्, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत् यथा अपनीतेन्धनाग्निज्वाला परिहीयते तथा इदमपीति । उत्पय्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवत्, यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते तथा इदमपि । आ केबलप्राप्तेः आ मरणाद्वा अवतिष्ठमानम् अप्रतिपाति, वेदवत्, यथा पुरुषवेदादिरापुरुषा5 दिपर्यायं तिष्ठति तथा इदमपीति ।
[ १०. मनः पर्यवज्ञानस्य निरूपणम् । ]
१२०. मनोमात्रसाक्षात्कारि मनः पर्यवज्ञानम् । मनःपर्यायानिदं साक्षात्परिच्छेतुमलम्, बाह्यानर्थान् पुनस्तदन्यथाऽनुपपरयाऽनुमानेनैव परिच्छिनतीति द्रष्टव्यम् । तद् द्विविधम्-ऋजुमति- विपुलमति मेदात् । ऋज्वी सामान्य ग्राहिणी मतिः ऋजुमतिः । 10 सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मन:पर्यायदर्शनप्रसङ्गात् । विपुला विशेषग्राहिणी मतिर्विपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यत इति । एते च द्वे ज्ञाने विकलविषयत्वाद्विकलप्रत्यक्षे परिभाष्येते ।
[ ११. केवलज्ञानस्य निरूपणम् । ]
15 २१. निखिलद्रव्यपर्यायसाक्षात्कारि केवलज्ञानम् । अत एवैतत्सकलप्रत्यक्षम् । तञ्चावरणक्षयस्य हेतोरैक्याद्भेदरहितम् । आवरणं चात्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वात्, असर्वविषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्व | आवरणस्य च कर्मणो विरोधिना सम्यग्दर्शनादिना विनाशात् सिद्ध्यति कैवल्यम् ।
20
२२. 'योगजधर्मानुगृहीतमनोजन्यमेवेदमस्तु' इति केचित् ; तन; धर्मानुगृहीतेनापि मनसा पञ्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् ।
९२३. 'कवलभोजिनः कैवल्यं न घटते' इति दिक्पटः; तन्नः आहारपर्याप्त्यसातवेदनीयोदयादिप्रभूतया कवलभुक्तया कैवल्याविरोधात्, घातिकर्मणामेव तद्विरोधित्वात् । दग्धरज्जुस्थानीयाचतो न तदुत्पतिरिति चेत्; नन्वेवं तादृशादायुषो 25 भवोपग्रहोऽपि न स्यात् । किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भगवतः स्यात् । अनन्तवीर्यत्वेन तां विना तदुपपत्तौ छद्मस्थावस्थायामप्यपरिमित बलत्वश्रवणाद् भुक्त्यभावः स्यादित्यन्यत्र विस्तरः । उक्तं प्रत्यक्षम् ।
[ १२. परोक्षं लक्षयित्वा पञ्चधा विभज्य च स्मृतेर्निरूपणम् । ]
९ २४. अथ परोक्षमुच्यते-अस्पष्टं परोक्षम् । तच्च स्मरण- प्रत्यभिज्ञान- तर्कानुमाना30 ऽऽगम मेदतः पञ्श्चप्रकारम् । अनुभवमात्रजन्यं ज्ञानं स्मरणम्, यथा तत् तीर्थकरबिम्बम् ।