________________
.
१. प्रमाणपरिच्छेदः ।
[ ४. मविज्ञानस्य अत्रग्रहादिभेदेन चातुर्विध्यप्रकटनम् । ]
६६. मतिज्ञानम् - अवग्रहेहापायधारणाभेदाश्चतुर्विधम् । अवकृष्टो ग्रहः - अनग्रहः । स द्विविधः - व्यञ्जनावग्रहः, अर्थावग्रहश्च । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम् -कदम्बपुष्पगोलकादिरूपाणामन्तर्निर्वृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुशक्तिविशेषलक्षणसुपकरणेन्द्रियम्, शब्दादिपरिणतद्रव्य निकुरुम्बम्, तदुभयसम्बन्धथ । 5 ततो व्यञ्जनेन व्यञ्जनस्यावग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः । अथ अज्ञानम् अयं बधिरादीनां श्रोत्रशब्दादिसम्बन्धवत् तत्काले ज्ञानानुपलम्भादिति चेत् ; न; ज्ञानोपादानत्वेन तत्र ज्ञानत्वोपचारात्, अन्तेऽर्थावग्रहरूपज्ञानदर्शनेन तत्कालेऽपि चेष्टाविशेषाद्यनुमेयस्वमज्ञानादितुल्याव्यक्तज्ञान्तनुमानाद्वा एकतेजोऽवयववत् तस्य तनु
त्वेनानुपलक्षणात् ।
[ ५. व्यञ्जनावग्रहस्य चातुर्विध्यप्रदर्शने मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् । ] ६७. स च नयन- मनोवर्जेन्द्रिय मेदाच्चतुर्धा, नयन- मनसोरप्राप्यकारित्वेन ध्य ञ्जनावग्रहासिद्धेः, अन्यथा तयोर्ज्ञेय कृतानुग्रहोपघातपात्रत्वे जलानलदर्शन - चिन्तनयोः क्लेद-दाह्मपत्तेः । रवि-चन्द्राद्यवलोकने चक्षुषोऽनुग्रहोपघातौ दृष्टावेवेति चेत्; न; प्रथमावलोकनसमये तददर्शनात्, अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्या - 15 (स्य), नैसर्गिक सौम्यादिगुणे चन्द्रादौ चावलोकिते उपघाताभावादनुग्रहाभिमानस्योपपत्तेः । मृतनष्टादिवस्तुचिन्तने, इष्टसङ्गमविभवलाभादिचिन्तने च जायमानौ दौर्बल्योर:क्षतादि-वदन विकासरोमाञ्श्चोद्गमादिलिङ्गकावुपघातानुग्रहौ न मनसः, किन्तु मनस्त्व परिणतानिष्टेष्टपुद्गल निचयरूपद्रव्यमनोऽवष्टम्भेन हृन्निरुद्धवायु भेषजाभ्यामिव जीवस्यैवेति न ताभ्यां मनसः प्राप्यकारित्वसिद्धिः । ननु यदि मनो विषयं प्राप्य न परिच्छिनत्ति तदा 20 कथं प्रसुप्तस्य 'मेर्वादौ गतं मे मनः' इति प्रत्यय इति चेत्; न; मेर्वादौ शरीरस्येव मनसो गमनस्वप्रस्यासत्यत्वात्, अन्यथा विबुद्धस्य कुसुमपरिमलाद्यध्वजनितपरिश्रमाधनुग्रहोपघातप्रसङ्गात् । ननु स्वमानुभूत जिनस्नात्र दर्शन- समीहितार्थाला भयोरनुग्रहोपघातौ विबुध(द्ध)स्य सतो दृश्येते एवेति चेत् ; दृश्येतां स्वमविज्ञानकृतौ तौ, स्वमविज्ञानकृतं क्रियाफलं तु तृप्त्यादिकं नास्ति, यतो विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्येतेति ब्रूमः । 25 क्रियाफलमपि स्वप्ने व्यञ्जनविसर्गलक्षणं दृश्यत एवेति चेत् ; तत् तीव्राध्यवसाय कृतम्, न तु कामिनी निधुवनक्रियाकृतमिति को दोषः ९ ननु स्त्यानर्धिनिद्रोदये गीतादिकं शृण्वतो व्यञ्जनावग्रहो मनसोऽपि भवतीति चेत्; न; तदा स्वमाभिमानिनोऽपि श्रवणाद्यवग्रहेणैवोपपत्तेः । ननु 'च्यवमानो न जानाति' इत्यादिवचनात् सर्वस्यापि छद्मस्थोपयोगस्यासत्येय समयमानत्वात्, प्रतिसमयं च मनोद्रव्याणां ग्रहणात् विषयमस- 30 म्प्राप्तस्यापि मनसो देहादनिर्गतस्य तस्य च स्वतभिहितहृदयादिचिन्तनवेलायां कथं
10