Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur

View full book text
Previous | Next

Page 18
________________ जैन सिद्धान्तकौमुदी मोदषतीति मुदः कोर्मुदः कुमुदश्चन्द्रः तस्येयं कौमुदी चन्द्रिका " चन्द्रिका कौमुदी ज्योत्स्नेत्यमरः" जैनसिद्धान्तानामागमादि प्रतिपाद्यपदार्थसार्थानां कौमुदीय कौमुदी जैनसिद्धान्तकौमुदी पदार्थप्रकाशकत्वादिगुणैश्चन्द्रिकासादृश्यमस्याः । अनेन अन्थारंभेऽवश्यप्रदर्शनीयमनुबन्धचतुष्टयमपि प्रदर्शितं तथा हि- अर्द्धमागधी भाषाज्ञानद्वारा तत्त्वजिज्ञासुरनाधिकारी भाषाङ्गानि सन्धिविभक्तिकारकसमासतद्धितधातुरूपकृदन्ताश्चास्य विषयः । भाषाज्ञानद्वारा तत्त्वबोधः फलम् । प्रतिपाद्यप्रतिपादकभावश्व सम्बन्धः । ननु व्याकरणरूपस्यास्य कथं तत्त्वबोधजनकत्वं तत्र तत्त्वप्रतिपादनाभावादिति चेन तत्वप्रतिपादकागमभाषाज्ञानसम्पादनद्वारा तत्वबोधजनकत्वस्य सुविदितत्वात् । तथा च भाषाज्ञानं साक्षात्फलं । तत्वबोधश्च परम्पराफलमिति विवेकः । अथ संज्ञाप्रकरणम् संशाया लाघवेन शास्त्रव्यवहारप्रयोजकतया तद्द्घटितत्वेन सर्वप्रकरणाङ्गतया पूर्वमेव तत्प्रकरणमाह श्रथेति । : अ आ इ ई उ ऊ ए ओ स्वराः | १|१८|| स्पष्टम् । -श्रा - इति- अभेदानुकरणत्वादच न विभक्तिः । संहिताया अविवक्षया च न सन्धिः । अकारादेः स्वरत्वेन सर्वत्र प्रसिद्धत्वेऽपि प्रकृतानामष्टानामेवात्रोपयोगितया तेषामेव तत्संज्ञा कृता एवम व्यञ्जनसंज्ञायामपि बोध्यम् ॥ कखगघङ चछजझञ टठडढण तथदधन पफबभम | यरलव सहा व्यञ्जनानि १|१| ॥ एते व्यजनसंज्ञाः स्युः । कखेति - अकारः सर्वत्र स्पष्टमुचारणार्थः । ननु स्वरविहीनानामपि व्यञ्जनानां वर्णान्तरसाहाय्येन यथा कथश्विदेकाकितया वोश्चारणमनुभूयत इति चेन्न । असहायतया स्पष्टत्वेन परश्रवणगोचरत्वस्यैवोच्चारणे निषेधात् । अत्रेतरेतरयोगो द्वन्द्वः । व्यञ्जनसंज्ञाया विचारस्तु पूर्वमुक्तप्राय एव । अत एव षशयोः संज्ञायां न प्रवेशः । अइउ ह्रस्वाः ॥ १ । १ । १४ ॥ एते स्वसंज्ञाः स्युः ॥ अईति-सन्ध्यभावादिविचारस्तु पूर्ववत् । अत्र व्याकरणे प्रकृतस्वरत्रयस्यैव ह्रस्वतया प्रदर्शनेन श्रमाणामेव हरवसंज्ञा कृता । अत्र प्रत्येकस्वरस्य संज्ञा भवति न व समुदायस्य तादृशप्रयोगासम्भवात् । नच

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77