________________
जैन सिद्धान्तकौमुदी
मोदषतीति मुदः कोर्मुदः कुमुदश्चन्द्रः तस्येयं कौमुदी चन्द्रिका " चन्द्रिका कौमुदी ज्योत्स्नेत्यमरः" जैनसिद्धान्तानामागमादि प्रतिपाद्यपदार्थसार्थानां कौमुदीय कौमुदी जैनसिद्धान्तकौमुदी पदार्थप्रकाशकत्वादिगुणैश्चन्द्रिकासादृश्यमस्याः । अनेन अन्थारंभेऽवश्यप्रदर्शनीयमनुबन्धचतुष्टयमपि प्रदर्शितं तथा हि- अर्द्धमागधी भाषाज्ञानद्वारा तत्त्वजिज्ञासुरनाधिकारी भाषाङ्गानि सन्धिविभक्तिकारकसमासतद्धितधातुरूपकृदन्ताश्चास्य विषयः । भाषाज्ञानद्वारा तत्त्वबोधः फलम् । प्रतिपाद्यप्रतिपादकभावश्व सम्बन्धः । ननु व्याकरणरूपस्यास्य कथं तत्त्वबोधजनकत्वं तत्र तत्त्वप्रतिपादनाभावादिति चेन तत्वप्रतिपादकागमभाषाज्ञानसम्पादनद्वारा तत्वबोधजनकत्वस्य सुविदितत्वात् । तथा च भाषाज्ञानं साक्षात्फलं । तत्वबोधश्च परम्पराफलमिति विवेकः ।
अथ संज्ञाप्रकरणम्
संशाया लाघवेन शास्त्रव्यवहारप्रयोजकतया तद्द्घटितत्वेन सर्वप्रकरणाङ्गतया पूर्वमेव तत्प्रकरणमाह श्रथेति ।
:
अ आ इ ई उ ऊ ए ओ स्वराः | १|१८||
स्पष्टम् ।
-श्रा - इति- अभेदानुकरणत्वादच न विभक्तिः । संहिताया अविवक्षया च न सन्धिः । अकारादेः स्वरत्वेन सर्वत्र प्रसिद्धत्वेऽपि प्रकृतानामष्टानामेवात्रोपयोगितया तेषामेव तत्संज्ञा कृता एवम व्यञ्जनसंज्ञायामपि बोध्यम् ॥
कखगघङ चछजझञ टठडढण तथदधन पफबभम | यरलव सहा व्यञ्जनानि १|१| ॥ एते व्यजनसंज्ञाः स्युः ।
कखेति - अकारः सर्वत्र स्पष्टमुचारणार्थः । ननु स्वरविहीनानामपि व्यञ्जनानां वर्णान्तरसाहाय्येन यथा कथश्विदेकाकितया वोश्चारणमनुभूयत इति चेन्न । असहायतया स्पष्टत्वेन परश्रवणगोचरत्वस्यैवोच्चारणे निषेधात् । अत्रेतरेतरयोगो द्वन्द्वः । व्यञ्जनसंज्ञाया विचारस्तु पूर्वमुक्तप्राय एव । अत एव षशयोः संज्ञायां न प्रवेशः ।
अइउ ह्रस्वाः ॥ १ । १ । १४ ॥ एते स्वसंज्ञाः स्युः ॥
अईति-सन्ध्यभावादिविचारस्तु पूर्ववत् । अत्र व्याकरणे प्रकृतस्वरत्रयस्यैव ह्रस्वतया प्रदर्शनेन श्रमाणामेव हरवसंज्ञा कृता । अत्र प्रत्येकस्वरस्य संज्ञा भवति न व समुदायस्य तादृशप्रयोगासम्भवात् । नच