________________
- : “संशाप्रकणरk : समुदाये वाक्यपरिसमाप्तिरिति न्यायेन समुदायस्यैव संज्ञोचितेति वाच्यं प्रत्येक वाक्य परिसमाप्तिरिति न्यायस्यैवात्राश्रयणादुभयोव्यवस्थितविषयत्वात्... . . . . , . . . . . - आईऊ दीर्घाः॥१।१।१३॥ . .
..:स्पष्टम् । आईति-पत्र न समासः किन्त्वभेदानुकरणत्वाद्विभक्तरेभावः । समासे तु समुदाये संज्ञापत्तिर्दुनिवारा स्यात् समासस्य समुदाये शक्तत्वात् कथंचिद्वारणकल्पनाया वाक्यमेव वरं प्रत्येक संज्ञासिद्धये । एवमेव सर्वत्रैतादृशस्थले बोध्यम्-शेषविचारस्तु पूर्ववत् ।
कादिमान्ताः स्पर्शाः ॥ १॥ १ ॥ १५ ॥
.' . स्पष्टम् । तत्र कादिङान्ताः कवर्गः । चादिनान्ताश्चवर्गः। टादिणान्ताष्टवर्गः । तादिनान्तास्तवर्ग: पादिमान्ताः पवर्गः।
कादीति-क आदिपेषान्ते कादयः । मः श्रन्तो येषां ते मान्ताः । कादयो मान्ताश्च कादिमान्ताः मन्चविंशतिवर्णाः स्पर्शा उच्यन्ते । तत्रेति-तच्छब्दस्य प्रक्रान्तादिपरामर्शकत्वेन व्यजनेवित्यर्थः ॥ कादिङान्ता इत्यादि-कादयश्च अन्ताश्च कादिशन्ताः क ख ग धाः कवर्गशब्देन बोध्या एवमप्रेऽपि । वर्गसंकेतप्रदर्शनफलन्तु स्फुटीभविष्यत्यप्रे ॥
अन्त्यात्पूर्व उपधा । १११ । २०॥ " .
अन्त्यवर्णात्पूर्वो वर्ण उपधासंज्ञः स्यात् । अम्त्यादिति-अन्त्यशब्देनान्त्यावयवो गृह्यते । अवयवत्वञ्च प्रस्तावावर्णानामेवेत्यन्त्यवर्णो लभ्यते । तथा च यज्जातीयकोऽन्त्यस्तजातीयक एवान्त्यांपूर्व इति पूर्वो वर्णो लभ्यते ॥
अनुस्वारः।१।१।१०॥
अनुस्वारो व्यञ्जनसंज्ञः स्यात् । . अनुस्वार इति-व्यजनानीत्यनुवर्तते । अभेदानुरोधाद्वचनविपरिणामः । श्र इत्यत्र स्वरात्परो वियमानो विन्दुरनुस्वार उच्यते । तस्य व्यजनसंज्ञाविधानफलन्तु व्यजनान्तरेण सह संयुक्तसंज्ञासिद्धिः । तेनो. वउज्जेत्यादौ व्यञ्जनत्रयसंयोगे सति व्यजनीभूतस्य पूर्वस्यानुस्वारस्य त्रयाणामिति सूत्रेण लोपः सिष्यति ।
स्वराणामन्त्यादिष्टिः ॥१।१ । १९ ॥