SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ॐ नमोऽहद्भ्यः ॥ श्रीतत्त्वदीपिकाव्याख्योपेता जैनसिद्धान्तकौमुदी (মাঝায্য) प्रणम्य श्रीमहावीरं मोक्षमार्गप्रकाशकम् । · रच्यते तत्त्वबोधाय जैनसिद्धान्तकौमुदी॥ .. अथ तत्त्वदीपिका 'श्रीपार्श्वपदपाथोजं नत्वा देवेन्द्रसेवितम् । कौमुद्याः क्रियते वृत्तिः स्वोपशं तत्त्वदीपिका ॥१॥ प्रारिप्सितग्रन्थसमातिपरिपन्थिप्रत्यूहव्यूहविधाताय विहितं नमस्कारात्मक मङ्गलं शिष्टाचारपरिपालना) अन्धादो निवान् चिकीर्पित प्रतिजानी प्रणम्यति-प्रणामं कृत्वेत्यर्थः प्रणामश्च स्वावधिकोत्कर्षबोधनानुकूलों व्यापारः स च काशिरोविलक्षणसंयोगरूपः। तादृशव्यापारजन्यज्ञानरूपफलाश्रयतया श्रीमहावीस्य कर्मत्वम् । श्रीमहावीरमितिमहान् कपायोपसर्गपरिषहेन्द्रियादिरिपुनिवहजयादतिशायी चीरो विक्रान्तः। विक्रान्त्यर्थस्य वीरधातो:रयति स्मेतिविग्रहेण साधनात् । अथवा विशेषेणेरयति प्रापयति शिवं कल्याणं स्फेटयति वा कर्मेति वीरः । महांश्चासौ वीरश्च महावीरः, पूर्वापरेति बाधित्वा सन्महदिति समासः। प्रकृतशासनपतिश्चरमस्तीर्थकरः । श्रियाऽलौकिकया शोभया सहितो महावीरः श्रीमहावारस्तम् । मोक्षमार्गेति-मोक्षस्य कृत्स्नकर्मात्यन्तोच्छेदरूपस्य मार्गः साधनं सम्यग्ज्ञानादिरत्नत्रयं तस्य प्रकाशकः प्रज्ञापकस्तम् । अनेनान्येच्छानधीनेच्छाविषयरूपस्य स्वतःप्रयोजनस्य साधकत्वात्स एव नमस्कार्य इति ध्वनितम् । रच्यत इति-मयेति शेषः रचना च स्वज्ञानं परान् बोधयितुं तदनुकूलवाक्यानां लिपिसग्निवेशविशेषः तत्त्वबोधायेति -तत्त्वानि जीवाजीवादिपदार्थाः । तानि च जैनागमेष्वर्द्धमागधीभापायां हेतुयुक्तिदृष्टान्तपूर्वक प्रतिपादितानि । आगमभाषासत्कपदानां साधुत्वासाधुत्वज्ञानं विना न भवति तत्तत्पदार्थानां यथार्थवोधः । पदानां साधुत्वासाधुत्वज्ञानजनकाब भवति तदृभाषाच्याकरणम् । अतस्तत्वबोधमुदिश्यवारय व्याकरणास्य रचनाप्रवृत्तिरिति भावः। जैनसिद्धान्तकौमुदीतिः--
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy