Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
जैनसिद्धान्तकौमुदी तेरिति-ममित्यनुवर्तते । तिशब्दश्चादित्स्थानिक एवान्यस्यासम्भवात् । वण + अ इत्यत्र णितीत्यनेन विभक्तेः 'ति' इत्यादेशेऽकारस्य 'णित्यो' रिति दीचे वणा+ति इति जातेऽनेन वैकल्पिके ममागमेऽनुस्वारे तकारस्य यकारे लोपे प्रकृतिभावे वणाई, ममागमाभावे वणाइ । एवं दहाई, दहीइ । महूई, महूइ । एवं द्वितीयायामपि । तद्यथा वणं | वणाणि; वणाई, वणाइ । दहिं । दहीणि, दही, दहीइ ॥ महुं । महूणि, महूई. महूइ ॥
क्लीवे नित्यम् । ३ । ४ । ६६ ।। नाम्नः परस्यामन्त्रणार्थकप्रथमैकवचनस्य नित्यं लोपः स्यात् ।। हे वण! | हे वणाणि !, वणाई, वणाइ ॥ हे दहि ! । हे दहीण !, हे दहीई !, हे दहीइ ॥ हे महु ! । हे महाण ! हे महूई 1, हे महूइ ! ॥ शेषं पुंवत् ॥ सबं । सवाणि, सवाई, सब्बाइ । जं । जाणि, जाई, जाइ ।। तं । ताणि, ताई, ताइ ।। कं । काणि, काई, काइ ॥ इमं । इमाणि, इमाई, इमाइ । एयं ।
एयाणि, इयाई, एयाइ ॥ शेषं पुंवत् ।। क्लीव इति-आमन्त्रणे उतः लोप इति पदत्रयमनुवर्तते । वण + उ इत्यनानेनोकारस्य लोपे हे वण ! वणाणीत्यादि तु पूर्ववत् । एवं हे दहीत्यादि बोध्यम् । शेष पुंवदिति, तत्र वणशब्दस्य रूपाणि जिण शब्दवत् । दहिशब्दस्य रूपाणि मुणिशब्दवत् । एवं सव्वादे रूपाणि यथाययं योध्यानि ।।
इति नपुंसकलिङ्गाः॥
संख्यावाचकास्त्रिलिङ्गाः ।।
वेडोरणी प्रत्येकम् । ४ । ३ । ४३ ।। दुशब्दात्परयोरदित्यत्यययोः प्रत्येकं वे डोषिण इत्येतावादेशौ वा स्तः ॥ दुवे, दोषिण ॥
वेडोरणीति-अदितोरिति दोरिति चानुवर्तते । वेश्च डोरिणश्च वेडोरणी । दु+ अ इत्यत्रानेनाकारस्य 'वे' इत्यादेशे दुवे, 'डोएिण' इत्यादेशे तु दोरिण ।। एवं द्वितीयावहुवचनेऽपिबोध्यम् ॥ 'अतोऽयोडवोडौ पुंसि' इत्यादि सूत्राणां त्वत्र न प्रवृत्तिः, विशेषविहितेनानेन बाधात् । न च दुशब्दस्य द्वित्ववाचकत्वेन बहुवचनान्तत्वमयुक्तमिति वाच्यम्, एकातिरिक्तस्यैव बहुत्वेन बहुवचनान्तत्वाचतेः एवमग्रेऽपि ।।
डोदाः।४।३।४१॥ दुशब्दात्परयोरदितात्यययो ' ' इत्यादेशः स्यानित्यम् । दो॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77