Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
अथाव्ययप्रकरणम्
संख्या तेः । ३ । ४ । ४४ ॥
संख्याथ कतिप्रत्ययान्तात्परयोरदितार्लोपः स्यात् ॥ कति । जति । तति । वीसाद्याः शब्दाः संख्यासंख्येयोभयवाचकाः, तत्र संख्येयवाचकत्वे नित्यमेकवचनान्ताः संख्यावाचकत्वे तूभय.
५७
वचनान्ताः ॥
संख्येति — अदितोलोंप इत्यनुवर्तते । संख्यायां वर्तमानादित्यर्थः । प्रत्ययाप्रत्यययोरिति परिभाषया ति प्रत्ययान्तादिति लाभः । कति + अ इत्यन्त्रानेन विभक्तेलोंपे कति शेषं तिशब्दवत् ॥ एवं द्वितीयायामपि वोध्यम् । एवं जतिततिशब्दावपि । वोसादिशब्दानां संख्या संख्येयवाचकत्वेऽपि संख्याविशिष्टवाचकत्वं नित्यमेकवचनान्तता । संख्यापरत्वे तु बहुबचनान्ततापि ॥
वीसादिभ्यः ||३|१४॥ ·
नउइशब्दपर्यन्तानां वीसा (दिशब्दानां प्रथमायां नपुंसकवद्रूपं स्यान्नित्यम् । वसिं । चत्तालीसं । तृतीयादौ तु वीसाए । चत्तालसाए इत्यादि ॥
बीसादिभ्य प्रति–उत इति डमिति उदद्वयस्यानुवृत्तिः । वीसाशब्दादारभ्य नउइशब्दपर्यन्तान नित्यस्त्रीलिङ्गानां प्रथमायां नपुंसकखनातिदेशोऽनेन क्रियते सतादोनां तु सर्वविभक्तौ पुंनपुंसकत्वमिति तत्रांति-देशापेक्षा नास्ति ॥ द्वितीयायां नपुंसकत्वविधानं व्यर्थ, मप्रत्यये परे स्वत एव ह्रस्वसिद्धेरतः 'प्रथमाया' मित्येवोक्तं ॥ वीखाशब्दात्पूर्वेषामपि संख्यावा वकानां त्रिलिङ्गत्वम् || नउइशब्दोपादानेन नवनउइपर्यन्तस्य ग्रहणं नवनउइशब्देऽपि नउइशब्दस्य विद्यमानत्वात् ॥ वोसा + अ इत्यत्रानेनाकारस्य डमादेशे ङित्त्वादा- . कारलोपेऽनुस्वारे वीसं ॥
॥ इति ॥
अथाव्ययप्रकरणम् ॥
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ॥
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ १ ॥
सदृशमिति—त्रिषु लिङ्गेषु सदृशं = समानमेकप्रकारमिति यावत्, सर्वासु च विभक्तिषु समानं सर्वेषु
वचनेषु च समानमत एव यन्न व्येति विविधप्रकारं प्राप्नोति तदव्ययम् ॥ १ ॥
अव्ययसहादि । १ । १ । ३५ ॥
श्रहादिगणपठितमव्ययसंज्ञकं स्यात् ॥

Page Navigation
1 ... 71 72 73 74 75 76 77