Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur

View full book text
Previous | Next

Page 21
________________ संज्ञाप्रकरणम् स्वरादनन्तराणि संयुक्तम् ॥ १।१ । ११ ।। खराव्यवहितानि व्यजनानि संयुक्तसंज्ञानि स्युः ॥ स्वरादिति-जात्यपेक्षयैकवचनं तेन स्वरद्वयादिव्यवधानेऽपि संयुक्तसंज्ञा न भवतीति—यद्यप्यव्यबहितानि संयुक्तानीत्यनेनापि स्वराज्यवहितानीत्यस्य लाभः संभवति विजातीयेनैव व्ययधानस्य प्रसिद्धतया व्यञ्जनानां स्वरेणैव व्यवधानसम्भवेन तेनैवाव्यवधानस्यापि लाभसम्भवात् । तथापि स्पष्टतया तत्प्रतिपादनायैव स्वरादित्युक्तम् । व्यन्जनानाति-- अनुस्वारो व्यसनमिति सूत्राद्व्यश्वनमित्यस्यानुवृत्तिः । वहुत्वमत्राविवतितं द्वयोरपि संयुक्तसंज्ञादर्शनात् प्रत्येकं तु न संयोगसंज्ञा लक्ष्यानुरोधात् । आर्या दण्ड्यन्तामितिवत् समुदाये वाक्यपरिसमाप्तः। आदेदोद् वृद्धिः॥११॥१२॥ आत् एत् ओत् इत्येते वृद्धिसंज्ञाः स्युः ॥ आदिति-अत्र पदत्रयम् । स्पष्टप्रतिपत्त्यर्थं तकारत्रयनिवेशः । समुदायसंज्ञावारणादिप्रकारस्तु दर्शित एव । अनादेदोष संज्ञिनः वृद्धिः संज्ञा न तु विपरीतमनुवाद्यमनुद्दिश्य न विधेयमुदीरयेदिति वचनात्पूबोबारिताः संज्ञिनः परोच्चारिता संज्ञेति नियमात् । अदिदुतामदाताविदीदेत उदूदोतः सवर्णाः ।।१।२१॥ अदिदुतां क्रमेण अदातौ इदीदेतः, उद्दोतः सवर्णा भवन्ति ॥ अदिदुतामिति-श्रञ्च इच्च उच्च अदिदुतस्तेषाम् । अञ्च आच्च अदातौ । इञ्च ईञ्च एच इदीदेतः । उप मा भोव उदूदोतः । इति त्रयः समुदाया प्रकारेकारोकाराणां त्रयाणां क्रमेण सवर्णा भवन्ति । तथाचाकारस्याकाराकाराविकारस्येकारेकारैकारा उकारस्योकारोकारौकाराः सवर्णा भवन्तीति सिद्धम् । __ वर्गेषु प्रथमद्वितीययोः प्रथमस्तृतीयचतुर्थयोस्तृतीयः। ११ १।२२॥ कचटतपवर्गेषु कखयोश्चछयोप्टठयोस्तथयोः पफयोः कचटतपाः गधयोर्जझयोर्डढयोर्दधयोर्बभयोः क्रमेण गजडदवाः सवर्णा भवन्ति ॥ वर्गेविति-कवर्गचवर्गटवर्ग तवर्ग पवर्गेष्वित्यर्थः प्रथमत्वादिव्यवहारश्च मातृकावर्गपाठापेक्षया बोभ्यः । अदिदुतामिति सूत्रात्सवर्णा इत्यस्यानुवृत्तिः क्रमेणेति तथा च कखयोः ककारश्चछयोश्चकारष्ठठयोष्टकारस्तथयोस्तकारः पफयोः पकार एवं गघयोर्गकारो जझयोर्जकारो डढयोर्डकारो दधयोर्दकारो वभयोर्वकारः सवर्ण इति सिद्धम् । विशेषणं तदन्तस्य ।। १ । १ । २३|| . विशेषणं तदन्तस्यापि संज्ञा स्यात् ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77