Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur

View full book text
Previous | Next

Page 50
________________ जैनसिद्धान्तकौमुदी वयसा इत्यादि । सगागमाभावे तु जसेण, मणेण, वएण, कारण इत्यादि । असोल्स्सयोरोः। ४।३। ५६ ॥ सकारान्तानाम्नः परयोरतोत्स्सयोरोसादेशः स्यात् । जससो । मणसो । वयसो । कायसो । तेयसो । चक्खुसो । जोगसो। . . . . . असोदिति-सान्तादित्यस्यानुवृत्तिः । अतोच.स्सश्च प्रतोत्स्लो तयोः। सित्त्वात्सर्वादेशः । जसादीनां सगागमे सति सान्तोऽस्य सूत्रस्य प्रवृत्तिः । पञ्चमीषष्ठ्येकवचनयोरोत्वे जससो, मणसो इत्यादि । सगागमा. भावे जसस्स । मणस्स । वयस्स इत्यादि । मण + मि इत्यत्र मेरादेरित्यनेन मकारस्य सकारे मौ व्यञ्जनादा... विति ममागमे मणंसि । ममागमस्य वाहुल्येन कचित्तदभावे मणसि । सकाराभाचे ममागमे मणमि ॥ कास्नयोहः। ४।३ । ६७ ॥ . . . एतयोरुकारादेशो वा स्यादिणप्रत्यये परे । कम्मुणा । धम्मुणा । शेषं जिणवत् । कम्मधम्मयोरिति-इणे वेति पदद्वयानुवृत्तिः । अन्त्यस्य पठ्येति परिभापयाऽन्त्यादेशः । एतयोः-कम्मधम्मशब्दयोः । उकारादेशे सतीणस्य णेत्यनेन णादेशे कम्मुणा | धम्मुणा । पक्षे कम्मेण । धम्मेण तृतीयैकवचनं विनाऽन्यत्र जिणंशब्दवद्रूपाणि ज्ञेयानि । । । इकारान्तः पुल्लिंगो मुणिशब्दः। . . . . . आदिदु या स्वरे सुपि पूर्वस्य । ३ । २ । ३२ । आकारादिकारादुकाराच स्वरादौ सुपि परे पूर्वपरयोः पूर्वसवर्णदीर्घ एकादेशः स्यात् । मुणी · · · आदिदुद्व इति--पूर्वपरयोः सवर्णः दीर्घ इत्येतत्पदन्नयमनुवर्तते । सवर्णे स्वरेऽदित इति सूत्रेण दी सिद्धेप्यसवर्णस्वरादौ सुपि दीर्घविधानार्थमिदं सूत्रम् । तथा च सवर्णे सुप्यप्यनेनैव दीर्घो विशेषविहितत्वात्।आच्च इच्च उच्चा दिदुतस्तेभ्यः । स्वरे सुपीति सप्तम्यन्तं वर्णविधौ तदादाविति परिभाषयास्वरादाविति लाभः । मुणि+ उदित्यत्राने कारोकारयोः पूर्वसवर्णदीधैंकादेशे मुणी। ' . . . . इदुइयां णोरदितोः।४।३।४६॥ इदुद्भ्यां परयोः प्रथमाद्वितीयाबहुवचनयोों इत्यादेशो वा स्यात्पुंसि । मुणियो, मुणी । मुणिं । मुणिणो, मुणी । झुणिंणा । मुणीहिं, मुणीहि । इदुझ्यामिति-पुंसि वेति पदद्वयस्यानुवृत्तिः । मुणि+ अइत्यत्रानेन णो इत्यादेशे मुणिणो । आदेशाभावे पूर्वसवर्णदीर्घ मुणी । एवमप्रेपि ॥ मुणि + इणेत्यत्र इणस्य णेत्यनेन णादेशे मुणिणा। मुणि+ इहि-अत्र सवर्णदीर्घे ममागमे चमुणीहिं । ममागमाभावे मुणीहि ।।. ... अएदतोत्स्सानामस्त्रियाम् । ४।३। ५०॥ . इदुनयां परेषामेषां णो इत्यादेशो वा स्यादस्त्रियाम् । मुणिणो, मुणिस्सा मुणीए । मुणीणं,

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77