Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
जैन सिद्धान्तकौमुदी
लोप इत्यस्यानुवृत्तिः । कत्तार +उ इति स्थितेऽनेनोकार स्याकारादेशे आरभागस्य च लोपे कत इति । एवं भत्त इत्यादि । अन्त्यस्य षष्ठ्या इत्यनेनान्त्यस्य लोपो न भवति आरस्येति विशेषोपादानादुक्तपरिभाषया अत्राप्रवृत्तेः । किन्तु सर्वस्यैव !.
चोरायादिभ्यः । ४ । ३ । १५ ॥
एभ्यः परस्य प्रथमाया एकवचनस्याकारादेशः स्यात् । राया । अप्पा | अत्ता । इति - इति प्रथमान्तम् । उत इत्यनुवर्त्तते । आदिशब्देनाप्पादयोः गृह्यन्ते । राय + उदित्यत्राने नाकारादेशे सवर्णदीर्घे राया । एव मप्पादयः
ܕ
14:
एभ्यः परस्यामन्त्रणैकवचनस्य डमादेशः स्यात् ।
रायादिभ्य इति - उत आमन्त्रण इति चानुवर्त्तते । वर्त्तमानस्येति शेषः आमन्त्रणे वर्त्तमानस्य प्रथमैकवचनस्येत्यर्थः । हे राय + उदित्यत्रानेनोतो डमादेशो भवति ।
:
डिति टेः । ४ । १ । २६ ॥
डिति परे लोपः स्यात् । हे रायं ।
डितीति- लोप इत्यनुवर्त्तते । टिसंज्ञा समाख्याता पूर्वम् । डमादेशे सति तस्मिन्नतो लोपे हे रायें। - एव न दीर्घः ।
1
रायादिभ्यो डम् । ४ । ३ । १३ ॥
***.:
अणो रायादिभ्यः । ४ । ३ । ३७ ॥
रायादिभ्यः परयोः प्रथमाद्वितीययोर्बहुवचनयोरणो इत्यादेशः स्यात् । रायाणो । अदितोरिति---अदितोरित्यस्यानुवृत्तिः । अच इच अंदितौ तयोः । अणोरिति प्रथमैकवचनान्तम् । राय + अदित्यत्रानेनाणवादेशे सवर्णदीर्घे रायाणो । द्वितीयाबहुवचनेपि रायाणो । मायादिभ्यो वा | ४ | ३ | ६५ ॥
::
f
;
'रायादिभ्यः परस्य मप्रत्ययस्याणडागमो वा स्यात् । रायाणं, रायं । म इति—म इति षष्ठ्यन्तम् | अणडिति प्रथमान्तम् । राय +म् इत्यत्र टित्वान्मका दीर्घं मोनुस्वारे रायाणं । आगमाभावे रायं ।
3428
सेणस्य । ४ । ३ । १६ ॥ -
तृतीयैकवचनसहितस्य रायशब्दस्य रन्नेत्यादेशः स्यात् । रना ।
रायस्येति—अनेकवर्णत्वात्सर्वादेशः । कचिदेकदेशन्यायेन सेयस्येति विशेषणबलाच रायशब्दमात्रा-.
तुवृत्तेर्विशेषणानुरूपविभक्तिविपरिणामांचं वृत्तौ रायशब्दस्येत्युक्तम्

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77