SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी लोप इत्यस्यानुवृत्तिः । कत्तार +उ इति स्थितेऽनेनोकार स्याकारादेशे आरभागस्य च लोपे कत इति । एवं भत्त इत्यादि । अन्त्यस्य षष्ठ्या इत्यनेनान्त्यस्य लोपो न भवति आरस्येति विशेषोपादानादुक्तपरिभाषया अत्राप्रवृत्तेः । किन्तु सर्वस्यैव !. चोरायादिभ्यः । ४ । ३ । १५ ॥ एभ्यः परस्य प्रथमाया एकवचनस्याकारादेशः स्यात् । राया । अप्पा | अत्ता । इति - इति प्रथमान्तम् । उत इत्यनुवर्त्तते । आदिशब्देनाप्पादयोः गृह्यन्ते । राय + उदित्यत्राने नाकारादेशे सवर्णदीर्घे राया । एव मप्पादयः ܕ 14: एभ्यः परस्यामन्त्रणैकवचनस्य डमादेशः स्यात् । रायादिभ्य इति - उत आमन्त्रण इति चानुवर्त्तते । वर्त्तमानस्येति शेषः आमन्त्रणे वर्त्तमानस्य प्रथमैकवचनस्येत्यर्थः । हे राय + उदित्यत्रानेनोतो डमादेशो भवति । : डिति टेः । ४ । १ । २६ ॥ डिति परे लोपः स्यात् । हे रायं । डितीति- लोप इत्यनुवर्त्तते । टिसंज्ञा समाख्याता पूर्वम् । डमादेशे सति तस्मिन्नतो लोपे हे रायें। - एव न दीर्घः । 1 रायादिभ्यो डम् । ४ । ३ । १३ ॥ ***.: अणो रायादिभ्यः । ४ । ३ । ३७ ॥ रायादिभ्यः परयोः प्रथमाद्वितीययोर्बहुवचनयोरणो इत्यादेशः स्यात् । रायाणो । अदितोरिति---अदितोरित्यस्यानुवृत्तिः । अच इच अंदितौ तयोः । अणोरिति प्रथमैकवचनान्तम् । राय + अदित्यत्रानेनाणवादेशे सवर्णदीर्घे रायाणो । द्वितीयाबहुवचनेपि रायाणो । मायादिभ्यो वा | ४ | ३ | ६५ ॥ :: f ; 'रायादिभ्यः परस्य मप्रत्ययस्याणडागमो वा स्यात् । रायाणं, रायं । म इति—म इति षष्ठ्यन्तम् | अणडिति प्रथमान्तम् । राय +म् इत्यत्र टित्वान्मका दीर्घं मोनुस्वारे रायाणं । आगमाभावे रायं । 3428 सेणस्य । ४ । ३ । १६ ॥ - तृतीयैकवचनसहितस्य रायशब्दस्य रन्नेत्यादेशः स्यात् । रना । रायस्येति—अनेकवर्णत्वात्सर्वादेशः । कचिदेकदेशन्यायेन सेयस्येति विशेषणबलाच रायशब्दमात्रा-. तुवृत्तेर्विशेषणानुरूपविभक्तिविपरिणामांचं वृत्तौ रायशब्दस्येत्युक्तम्
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy