SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विभाक्तिप्रकरणम् इणयोरिः। ४ । ३ । १७ ॥ रायशब्दस्यकारोऽन्तादेशः स्यादिह्यणयोः परयोः । राईहि, राईहिं । इहीति-रायस्येत्यनुवर्तते । अन्त्यस्य षष्ठ्या इत्यनेनान्त्यादेशः। राय + इहि-अत्र यकारोत्तराकारस्येकारादेशे यलोपे सवर्णदीचे राईहि । ममागमे राईहिं ।। सस्सस्य रन्नोः।४।३।१८॥ षष्ठ्येकवचनसहितस्य रायशब्दस्य रनो इत्यादेशः स्यात् । रन्नो । सईण, राईणं । शेषं जिणवत् । सस्सस्येति-रायस्येत्यस्यानुवृत्तिः । स्सेन सहितः सस्सस्तस्य । रनोरिति प्रथमैकवचनान्तम् । राय+ स्सेत्यत्रानेनादेशे रनो। राय + प्रणेत्यत्राकारस्येकारादेशे यलोपे सवर्णदीर्घे राईण । ममागमे राईणं । पंचमीसप्तम्यादिपु जिणवद्रूपाणि बोध्यानि ॥ अत्ताप्पाभ्याम् । ४।३।५३ ॥ आभ्यां परस्येणप्रत्ययस्य णा इत्यादेशः स्यात् । अत्तणा । अप्पणा। अत्तति-इणस्य णेत्यस्यानुवृत्तिः । अनेकवर्णत्वात्सर्वादेशः । अत्ताप्पशब्दावात्मवाचकौ । तद्रूपाणिप्रथमाद्वितीययो रायवद्भवन्ति-तृतीयैकवचनेऽनेन णादेशे भत्तणा, अप्पणा । स्सस्य पोः।४।३।५४ ॥ आभ्यां परस्य स्सप्रत्ययस्य णो इत्यादेशः स्यात् । अत्तणो । अप्पणो । शेषं जिणवत् । . सस्सस्येति-अत्ताप्पाभ्यामिति पूर्वसूत्रादनुवर्त्तते । अनेकवर्णत्वात्सर्वादेशः । चतुर्थीषष्ठ्येकवचनेऽनेन णो इत्यादेशे अत्तणो । अप्पणो । अन्यानि रूपाणि जिणशब्दवज्ञेयानि । इणातोत्स्सेषु जसादीनां सक् । ४।३।६६॥ . एपु परेषु जसादीनां सगागमो वा स्यात् । इणेति चेत्यनुवर्तते । जस, मण, वय, काय, तेय, चक्खु, जोग, एते जसादयः । कित्वादन्त्यावयवः तेन जसादीनां सान्तत्वं निष्पद्यते । सान्तादिणस्याः।४।३।५५ ॥ सकारान्तानाम्नः परस्येणप्रत्ययस्यासादेशः स्यात् । जससा । मणसा । वयसा । कायसा। तेयसा । चक्खुसा । जोगसा । सान्तादिति-सान्तादिति पञ्चम्यन्तं विशेषणम् । नाम्न इति विशेष्येण तदन्वयः । श्रासादेशे सकार इत्संज्ञकस्तेन सित्त्वात्सर्वादेशः । जसादीनां सगागमेन सान्तत्वे निष्पन्नेऽनेनेणस्यासादेशे जससा, मणसा,
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy