Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
विभाक्तिप्रकरणम्
इणयोरिः। ४ । ३ । १७ ॥ रायशब्दस्यकारोऽन्तादेशः स्यादिह्यणयोः परयोः । राईहि, राईहिं । इहीति-रायस्येत्यनुवर्तते । अन्त्यस्य षष्ठ्या इत्यनेनान्त्यादेशः। राय + इहि-अत्र यकारोत्तराकारस्येकारादेशे यलोपे सवर्णदीचे राईहि । ममागमे राईहिं ।।
सस्सस्य रन्नोः।४।३।१८॥ षष्ठ्येकवचनसहितस्य रायशब्दस्य रनो इत्यादेशः स्यात् । रन्नो । सईण, राईणं । शेषं जिणवत् ।
सस्सस्येति-रायस्येत्यस्यानुवृत्तिः । स्सेन सहितः सस्सस्तस्य । रनोरिति प्रथमैकवचनान्तम् । राय+ स्सेत्यत्रानेनादेशे रनो। राय + प्रणेत्यत्राकारस्येकारादेशे यलोपे सवर्णदीर्घे राईण । ममागमे राईणं । पंचमीसप्तम्यादिपु जिणवद्रूपाणि बोध्यानि ॥
अत्ताप्पाभ्याम् । ४।३।५३ ॥ आभ्यां परस्येणप्रत्ययस्य णा इत्यादेशः स्यात् । अत्तणा । अप्पणा। अत्तति-इणस्य णेत्यस्यानुवृत्तिः । अनेकवर्णत्वात्सर्वादेशः । अत्ताप्पशब्दावात्मवाचकौ । तद्रूपाणिप्रथमाद्वितीययो रायवद्भवन्ति-तृतीयैकवचनेऽनेन णादेशे भत्तणा, अप्पणा ।
स्सस्य पोः।४।३।५४ ॥ आभ्यां परस्य स्सप्रत्ययस्य णो इत्यादेशः स्यात् । अत्तणो । अप्पणो । शेषं जिणवत् । . सस्सस्येति-अत्ताप्पाभ्यामिति पूर्वसूत्रादनुवर्त्तते । अनेकवर्णत्वात्सर्वादेशः । चतुर्थीषष्ठ्येकवचनेऽनेन णो इत्यादेशे अत्तणो । अप्पणो । अन्यानि रूपाणि जिणशब्दवज्ञेयानि ।
इणातोत्स्सेषु जसादीनां सक् । ४।३।६६॥ .
एपु परेषु जसादीनां सगागमो वा स्यात् । इणेति चेत्यनुवर्तते । जस, मण, वय, काय, तेय, चक्खु, जोग, एते जसादयः । कित्वादन्त्यावयवः तेन जसादीनां सान्तत्वं निष्पद्यते ।
सान्तादिणस्याः।४।३।५५ ॥ सकारान्तानाम्नः परस्येणप्रत्ययस्यासादेशः स्यात् । जससा । मणसा । वयसा । कायसा।
तेयसा । चक्खुसा । जोगसा । सान्तादिति-सान्तादिति पञ्चम्यन्तं विशेषणम् । नाम्न इति विशेष्येण तदन्वयः । श्रासादेशे सकार इत्संज्ञकस्तेन सित्त्वात्सर्वादेशः । जसादीनां सगागमेन सान्तत्वे निष्पन्नेऽनेनेणस्यासादेशे जससा, मणसा,

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77