Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
जैनसिद्धान्तकौमुदी सूत्रेणाकारस्यावोडादेशे डित्वाट्टोपे साहवो, एतदभावे णो इत्यादेशे साहुणो, पक्षे पूर्वसवर्णदीर्घे साहूँ ॥ साहु +म् इत्यत्रानुस्वारे साहुं । साहु इ इत्यत्रेकारस्य णो इत्यादेशे साहुणो, पक्षे पूर्वसवर्णदीर्घे साहू ॥ साहु + इणेत्यत्र 'इणस्य णा' इत्यनेन णादेशे साहुणा । साहु + इहि इत्यत्रेणाणेहीसीसूनामिति वैकल्पिके ममागमे पूर्वसवर्णदीर्घ साहूहिं, ममागमाभावे पूर्वसवर्णदीचे साहूहि ॥ साहु + अए इत्यत्र 'भएतः स्सो नानः' इत्यनेन स्सादेशे साहुस्स, तदभावे णो इत्यादेशे साहुणो। तदभावे पूर्वसवर्णदीर्घे साहूए । साहु + अण इत्यत्र पूर्वसवर्णदीर्घ इणाणेहिसीसूनामिति सूत्रेण वैकलिसके ममागने मस्यानुस्वारे साहूणे, पक्षे साहूण ॥ साह + अतो इत्यत्र अएदतोत्स्सानामस्त्रियामित्यनेन णो इत्यादेशे साहुणो, पक्षे तकारस्य यकारे लोपे पूर्वसवर्णदी प्रकृतिभावे साहूओ । साहु + इहिन्तो इत्यत्र पूर्वसवर्णदीर्घे साहूहिन्तो । साहुस्स, साहुणो साहूणं, साहूण ।। अन्न पूर्ववज्ञेयम् । साहु +मि इत्यत्र सिरिति सूत्रेण स्यादेशे मौ व्यजनादौ नाम्न इत्यनेन ममागमेऽनुस्वारे साहुंसि, स्यादेशाभावे साहुंमि, साहु + इसु इत्यत्र पूर्वसवर्णदीर्घे साहूसु । साहु + उ इत्यत्रोतो लोपे भो ! साहु ! पूर्वसवर्णदीर्घे भो ! साहू ! शेषं पूर्ववत् ।। एवं सवन्नुभाणुप्रभृतयो बोध्याः ॥
बहोरवेडतो वा पुंसि । ४।३। ५७ ॥ बहुशब्दात्परस्य प्रथमाबहुवचनस्यावेडादेशो वा स्यात् बहवे, बहवो, बहुणो । वह
बहोरिति-बहोरिति पञ्चम्यन्तम् । अवेडिति प्रथमान्तम् । अत इति षष्ठयन्तम् । वेत्यनुवर्तते । बहु+अ इत्यत्रानेन सूत्रेणावेडादेशे डिवाटुकारस्य लोपे बहवे, अवेडादेशाभावेऽतोऽयोडवोडौ पुंसीति सूत्रेणावोडादेशे उलोपे बहवो, पक्षे णो इत्यादेशे बहुणो पूर्वसवर्णदीचे बहू । बहुशब्दो बहुत्वसंख्याविशिष्टअतो वाचकः नित्यं बहुवचनान्तः ।। शेष साहुवत् ।।
पितुप्रभृतिभ्यो डाः। ४।३।४॥
एभ्यो विहितस्योत्प्रत्ययस्य डादेशः स्यात् । पिया, पिता । पितुप्रभृतिम्य इति--उतइत्यनुवर्तते । पितु + उत् इत्यत्रानेनोतः स्थाने डादेशे तकारस्य यकारे पिया । यकाराभावे पिता ॥
अतोडरोः।४।३।५॥ पितुप्रभृतिभ्यः शब्देभ्यः परस्यातो 'डरों' इत्यादेशः स्यात् । पियरो, पितरो ।
अत इति-पितुप्रभृतिभ्य इत्यनुवर्त्तते । पितु + अत् इत्यत्रानेन सूत्रेणातो डरो इत्यादेशे डस्य लोपे डिवाडिलोपे तस्य यत्वे पियरो, यत्वाभावे पितरो ।। अयञ्चादेशो नित्यम्तेन पक्षे पूर्वसवर्णदीर्घ विधाय पितू इत्येवं न भवति ॥
मो डरम् । ४ । ३ । ७॥ पितुप्रभृतिभ्यः शब्देभ्यः परस्य मस्य डरमित्यादेशः स्यात् । पियरं पितरं । ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77