Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur

View full book text
Previous | Next

Page 61
________________ तुम्हशब्दाः णत्वाभावे ने, नो इत्यादेशे णत्वे णो, णत्वाभावेनो, अस्साकमादेशेऽनुस्वारे अस्साक, एतदभावे ममागमे पूर्वसवर्णदीपेऽनुस्वारे अम्हाणं ॥णे इत्यत्र "एयं णे पेच्च भवे" ओव० २५, इति प्रमाणम् ॥ एतदस्माकं प्रेत्य भव इति तदर्थः मम्हि ससेः। ४ । ३ । ८७ ॥ सिप्रत्ययसहितस्याम्हशब्दस्य मम्हिमादेशा वा स्यात् । मम्हि । महिमिति-अम्हस्येति वेति चानुवर्तते । सिना सह ससिस्तस्येति विग्रहः । अम्ह+मि इत्यत्र 'सिः' इतिसूत्रेण मेः स्यादेशेऽनेन सिसहितस्याम्हस्य 'मम्हिम्' इत्यादेशेऽनुस्वारे महि ॥ दृश्यते च "तं भई णं भवतु देवाणुप्पियाणं मन्हि जस्स अणुप्पभावेण अक्किट्टे नाव विहरामिः" भग० ॥३-१॥ तद्भद्रं भवतु देवानुप्रियाणां मयि यस्यानुप्रभावेणाक्लिष्टो यावद्विहारामि ।। पटे सौ ममम् । ४ । ३ । ८१ ॥ अम्हशब्दस्य मममित्यादेशः स्यात् सप्तम्येकवचने परे । ममंसि, ममंमि । अम्हेसु ॥ माविति-अम्हस्येत्यनुवर्तते । अम्हामि इत्यत्र मेः स्यादेशेऽम्हशब्दस्यानेन सूत्रेण मममादेशेऽनुस्वारेममंसि स्यादेशाभावेऽनेन मममादेशेऽनुस्वारे ममंमि । अत्र बाहुलकाल्लोपो न । अम्ह+इसु इत्यत्र वृद्धौ अम्हेसु ॥ अथ तुम्हशब्दः॥ सोतस्तुम्हस्य तन्तुमेतुममः । ४ । ३ । ८८ ॥ उप्रत्ययसहितस्य तुम्हशब्दस्य तं तुमे तुमम् इत्येत आदेशाः पर्यायेण स्युः । तं, तुमे, तुमम् । __सोत इनि-उता सह सोत्तस्येति बहुव्रीहिः । तञ्च तुमेश्च तुमश्चेति द्वन्द्वः तुम्ह +उ इत्यत्रानेन सूत्रेणोप्रत्ययसहितस्य तुम्हशब्दस्य तमादेशेऽनुस्वारे तं, तुमे इत्यादेशे तुमे,, तुममित्यादेशेऽनुस्वारे तुमं ॥ बहुवचनेषु तुब्भतुज्झौ था । ४ ।३।८६ ॥ तुम्हशब्दस्य बहुवचने परे तुम्भ तुज्झ इत्येतावादेशौ वा स्तः पर्यायेण । तुब्भे, तुज्झे, तुम्हे । बहुवचनेविति-तुम्हस्येत्यनुवर्तते । तुभश्च तुज्मश्चेति द्वन्द्वः । तुम्ह +अ इत्यत्रानेन तुम्भादेशे 'इः सव्वणामादतः' इत्यनेनाकारस्येकारे वृद्धौ तुम्भे, तुझादेशपक्षे तुझे, एतदभावे तुम्हे ॥ समस्तेः । ४ । ३ । १०॥ मप्रत्ययसहितस्य तुम्हशब्दस्य 'ते' इत्यादेशो वा स्यात् । ते । पक्षे ।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77