Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
व्यञ्जनविकारप्रकरणम् विच्छियस्य चस्य मः।३।४।१२॥
अस्य चकारस्य मकारो वा स्यात् । विछिए । विच्छियस्येति-वृश्चिकपर्यायविच्छियशब्दघटकचकारस्य मकारादेशरतत्राकार उच्चारणार्थः ।मकारस्प मोरित्यनुस्वारे विछिए।
___ उसियस्य । ३।४।१३ ॥
विच्छियशब्दस्येयस्योसादेशो वा । विच्छू, विच्छिए ॥ उसिति-विच्छियस्येति पूर्वसूत्रादनुवर्तते । उसादेशे सकारस्येत्त्वादनेकवर्णसिदित्यनेन सर्वादेशः । वेन विच्छियशब्दघटकेयस्य स्थान उसादेशे विच्छू । उसादेशाभावे विच्छिए।
- आलिसिन्दस्य सेरत् ॥३।४।११॥
आलिसिन्दशब्दसम्बन्धिसेरकारोऽन्तादेशो वा आलिसन्दो, आलिसिन्दो । प्रालीसन्दस्थति- अन्त्यस्य पष्ठथा इति परिभाषयासकारोत्तरेकारस्याकारादेशआलिसन्दो । अकारा. देशाभावे आलिसिन्दो॥
॥ इति स्वरविकारप्रकरणम् ॥
अथ व्यञ्जनविकारप्रकरणम् ।
अनादरसंयुक्तस्य कस्य गः ।३ । ३ । ६१॥ . असयुक्तानादिककारस्य गकारो वा स्यात् अहिगरणं; अहियरणं, अहिअरणं, अहिकरणं ।
अनादेरिति किम् । करणम् । असंयुक्तस्य किम् । विकिणइ । अनादेरिति-न आदिरादिभूतः सोऽनादिः पदस्यादाववर्तमान इत्यर्थः । न संयुक्तो व्यसनान्तरेणेत्यसंयुक्तः पदश्चात्र समस्तमसमस्तमुभयं गृह्यते यत्र समासस्तत्रोत्तरपदापेक्षयादिभूतत्वेपि समस्तपदापेक्षयाऽनादित्वं प्राह्यं तेनाहिगरणमित्यादौ न दोषः अहि+ करणमित्यत्रानेन ककारस्य गकारे अहिगरणं । बहुल गचेत्यादिना गकारस्य यकारे अहियरणं स्वराद्यस्येति यकारलोपे अहिअरणं । गकारस्य वैकल्पिकत्वाद्गकाराभावे महिकरणमिति । अनादेरित्यस्य प्रत्युदाहरणं करणमिति असंयुक्तस्य प्रत्युदाहरणं विकिणईति ॥
बहुलं गचजतदबवानां यः।३।३।६३ ॥ अनादिभूतासंयुक्तानामेपां यकारो बहुलं स्यात् । जयं, जगं । सोयं सोचं । प्रायणं, जि
णं । अवयरणं, अवतरणं । उयरं, उदरं । अलाऊ, अलाबू । जुयलं, जुवलं ।।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77