SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनविकारप्रकरणम् विच्छियस्य चस्य मः।३।४।१२॥ अस्य चकारस्य मकारो वा स्यात् । विछिए । विच्छियस्येति-वृश्चिकपर्यायविच्छियशब्दघटकचकारस्य मकारादेशरतत्राकार उच्चारणार्थः ।मकारस्प मोरित्यनुस्वारे विछिए। ___ उसियस्य । ३।४।१३ ॥ विच्छियशब्दस्येयस्योसादेशो वा । विच्छू, विच्छिए ॥ उसिति-विच्छियस्येति पूर्वसूत्रादनुवर्तते । उसादेशे सकारस्येत्त्वादनेकवर्णसिदित्यनेन सर्वादेशः । वेन विच्छियशब्दघटकेयस्य स्थान उसादेशे विच्छू । उसादेशाभावे विच्छिए। - आलिसिन्दस्य सेरत् ॥३।४।११॥ आलिसिन्दशब्दसम्बन्धिसेरकारोऽन्तादेशो वा आलिसन्दो, आलिसिन्दो । प्रालीसन्दस्थति- अन्त्यस्य पष्ठथा इति परिभाषयासकारोत्तरेकारस्याकारादेशआलिसन्दो । अकारा. देशाभावे आलिसिन्दो॥ ॥ इति स्वरविकारप्रकरणम् ॥ अथ व्यञ्जनविकारप्रकरणम् । अनादरसंयुक्तस्य कस्य गः ।३ । ३ । ६१॥ . असयुक्तानादिककारस्य गकारो वा स्यात् अहिगरणं; अहियरणं, अहिअरणं, अहिकरणं । अनादेरिति किम् । करणम् । असंयुक्तस्य किम् । विकिणइ । अनादेरिति-न आदिरादिभूतः सोऽनादिः पदस्यादाववर्तमान इत्यर्थः । न संयुक्तो व्यसनान्तरेणेत्यसंयुक्तः पदश्चात्र समस्तमसमस्तमुभयं गृह्यते यत्र समासस्तत्रोत्तरपदापेक्षयादिभूतत्वेपि समस्तपदापेक्षयाऽनादित्वं प्राह्यं तेनाहिगरणमित्यादौ न दोषः अहि+ करणमित्यत्रानेन ककारस्य गकारे अहिगरणं । बहुल गचेत्यादिना गकारस्य यकारे अहियरणं स्वराद्यस्येति यकारलोपे अहिअरणं । गकारस्य वैकल्पिकत्वाद्गकाराभावे महिकरणमिति । अनादेरित्यस्य प्रत्युदाहरणं करणमिति असंयुक्तस्य प्रत्युदाहरणं विकिणईति ॥ बहुलं गचजतदबवानां यः।३।३।६३ ॥ अनादिभूतासंयुक्तानामेपां यकारो बहुलं स्यात् । जयं, जगं । सोयं सोचं । प्रायणं, जि णं । अवयरणं, अवतरणं । उयरं, उदरं । अलाऊ, अलाबू । जुयलं, जुवलं ।।
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy