________________
जैनसिद्धान्तकौमुदी
इनीगणस्य । ३।३।७८॥ नगिणशब्दस्यादेः स्वरस्येकारो वा स्यात् । निगिणं, नगिणं ॥ इरिति-इरिति प्रथमान्तपदम् । श्रादेःस्वरस्येत्यनुवृत्तिः ॥ नगिणमिति-नममित्यर्थः आदिस्वरस्याकारस्येकारे जाते निगिणमिति । इकाराभावे नगिणमिति ॥
उउंबरस्य वा ।४।१।१६ ॥
अस्यादेः स्वरस्य लोपो वा स्यात् । उबरो, उउवरो । उउंबरस्येति- लोपोऽन्यतरस्येति सूत्राल्लोप इत्यनुवर्तते आदेः खरस्येत्यस्य पूर्ववदनुवृत्तिः । आदिरवरस्योकारस्य लोप ऊंबर इति रूपम् । लोपाभावे उउंबरो वा उदुंबरो वृक्षविशेषः ॥
श्रोत्कुतूहलस्य । ३।३ । ७६ ॥ कुतूहलशब्दस्यादेः स्वरस्यौद्वा स्यात् । । कोऊहलं, कुऊहलं । __ओदिति-ओदिति प्रथमान्तमादेशः । अनुवृत्तिः पूर्ववतालोप इति निवृत्तम् । कुतूहलशब्द आदिस्वर उफारः । तस्यौकारे । तकारस्य 'बहुलंगचे'त्यादिना यकारे लोपे च कोउहलं । ओकाराभावे कुहलमिति ।
ऊतः कुतूहलस्य । ३।३।१२।
कुतूहलस्योतो ह्रस्वो वा स्यात् । कोउहलं, कुउहलं । ऊत इति-हस्वो वेत्यनयोरनुवृत्तिः । ऊत इत्यनेन दीर्घोकार एव गृह्यते हस्तविधिसामर्थ्यात् । तथा च कुतूहलशब्दान्तर्गततकारोत्तरवयूकारस्य हस्वत्वे कोहलं कुउहलं हस्वाभावे दीर्घरूपं तूपरि दर्शितमेव। '
खुड्डस्य के ।३।२।४४ ॥
अस्य दीर्घो वा कप्रत्यये पर खुड्डाकं, खुड्डकं ॥ खुड्डुस्येति-धी? वेत्यनयोरनुवृत्तिः । स्वरस्य हस्वदीर्घत्यादिना स्वरस्योपस्थितिः । अन्त्यस्य षष्ठया इति परिभाषयाऽन्त्यस्वरस्यैव दीर्घः के इति सप्तमीनिर्देशादप्यव्यवहितपूर्वस्यैव दीर्घविधानादकारस्यैव दीर्घो नतूकारस्य खुड (क्षुद्र) शब्दास्वार्थेक प्रत्ययस्तथा च खुड्ड + इत्यत्राकारस्य दीर्घे खुट्टाक दीर्घाभावे खुडुकमिति॥ ककारस्य विकल्पेन गकारयकारसद्भावे खुडाग,खुडुगं, खुडाय खुड्डयमिति रूपचतुष्टयमने साधयिष्यते ॥
. वईत ऊत् । ३।१।७६ ॥
वईशब्दस्योकारो वा स्यात् वऊ, वई ॥ ___ वईत इति–तकारउभारणार्थः । वईत इति षष्ठथेकवचनान्तम् । अन्त्यस्य षष्ठया इत्यनेनान्त्यस्यादेशः । के नईशब्दो वाफपर्यायः बाणीसियावत् । तस्योकारे जाते वऊ । ऊकाराभावे वईति ॥