________________
अथ स्वरधिकारप्रकरणम्
पुरिसो, पुरुसो । भुइंगो, भुभंगो॥ इरिति-बहुलाधिकाराद्विकल्पलाभः । बहुलशब्दस्थाने तयंकवाशब्दोपादानेन वैकल्पिकमेवेदमिति लभ्यते । एवमन्यत्रापि । यत्रानेकविधं कार्य तत्र बहुलमित्येवोच्यते यत्र विविधमेषकार्य तत्र बहुलमाणफलितो वा शब्द एव पठ्यते । किवणचरमपुरुसमुअंगेत्येते किवणादयः ।
सुरभिदुरभ्योर्लोपः।३।३। ४३॥ एतयोर्मध्यस्वरस्य लोपो वा स्यात् । सुब्भि, सुरभि । दुभि, दुरभि । सुरभीति-मध्यस्य स्वरस्येति पूर्वसूत्रादनुकृप्यते । सुरभिदुरभिशब्दयोर्मध्य-स्वरोरेफोत्तरवर्त्यकारः तस्यानेन लोपेऽहे व्यसनस्येतिसूत्रेण रेफस्य परसवर्णो वकारादेशः तथा च सुम्मिमिति सिद्धमेवं दुन्भिमित्यपि । मध्यस्वरलोपाभावे सुरभिं दुरभिमिति ।
श्रोस्तंबूलस्य । ३।३।४४ ॥ तंबूलस्य मध्यस्वरस्यौकारो वा स्यात् । तंबोलं, तंपूलं ॥ .. ओरिति-मभ्यस्य स्वरस्येत्यस्य चानुवृत्तिः ।।
कारेलस्येयः ।३।३।४५॥ कारेलस्य मध्यस्वरस्येयादेशो वा स्यात् कारियलं, कारिलं, कारलं ।। कारेल्लस्येति-अत्रापि पूर्ववदनुवृत्तिः । मध्यस्वरोऽत्रैकाररतस्येयादेशे कारियल्लं । इयादेशाभावे संयुक इति सूत्रेण वा हस्वत्वे कारिल्लं । पक्षे कारल्लमिति।
अश्चिक्खिलादीनाम् । ३।३। ४६ ॥ एषां मध्यस्वरस्याकारो वा स्यात् । चिक्खलं, चिक्खिलं । अगरू, अगुरू ।
अ इति-पूर्ववदनुवृत्तिः। चिक्खिलशब्दे मध्यस्खर इकारः । अगुरुशब्दे मध्यस्वरसकारः तयोरकारोबातस्तथा च चिखल, अगर इत्यादिरूपसिद्धिः । चिक्खिलादिराकृतिगणः ।
___ अद्वेटगुरुययोः स्वरस्य । ३।३ । ७७॥ वेंटगुरुयशब्दयोः स्वरस्यादरकारो वा स्यात् । वंटं, वें । गरुयं, गुरुयं ॥
अदिति-आदेरित्यस्यानुवृत्तत्वान्मध्यस्येति निवृत्तम् । अदिति प्रथमान्तम् । वेटशब्द आदिस्वर एकारः गुरुयशब्द उकाररतयोरदित्यकारो जायते वंट-~-वृन्तं । गरुयं-गुरुकम् अफाराभावपक्षे वेटे गुरुयमिति । न च वेंटादीनां व्यअनादित्वात्स्वरादित्वं नास्तीति कथं सूत्रप्रवृत्तिरिति । वाच्यम् श्रादिशब्दस्यात्र प्रथमवाचकत्वं नत्वायवयववाचकत्वं दुर्योधनादयः कौरवा इत्यादौ प्रथमार्थकस्यैव दृष्टत्वाच तथा च वेंटादिशब्दे य श्रादिस्वरःप्रथमः खरः तस्याकारः स्याविति फलितार्थः ।।