________________
जैनसिद्धान्तकौमुदी तस्य स्पर्शेषु तवर्गपञ्चमः । ३ । ४ । ३ ॥ स्पर्शेषु परेष्वनुस्वारस्य परवर्णवर्गस्थः पञ्चमो वर्ण आदेशो वा स्यात् । सङ्कमइ । सञ्चरइ ।
सण्डीणो । सन्तपइ । सम्पावेइ । पक्षे संकमईत्यादि । - तस्यति-तच्छदस्य पूर्वपरामर्शकस्वाद्विधीयमानोऽनुस्वारः परामृश्यते । स्पृशन्ति स्वस्वस्थानं स्पष्टतयेति स्पर्शाः कादयो मान्ता वर्णाः पञ्चविंशतिस्तेषु परेत्रित्यर्थः ॥ नखर्गेति-द्वितीयतच्छब्देन स्पर्शवर्णः परामृश्यते । तेन स्पर्शरूपपरवणे लभ्यते तस्य यो वर्गः कवर्गादिः तत्र स्थितः पञ्चमो वर्णः उकारादिः सोऽनुस्वारस्यादेशो वा स्यादित्यर्थः । सम् + कमईत्यत्र नोरनुस्वार इति सूत्रेणानुस्वारेऽनेनाजुस्वारस्य परवर्णवर्गः कवर्गस्तस्य पञ्चमो' वर्णः डकारो जातः । संचरईत्यत्र बकारः । संडीणो इत्यत्र णकारः संतपईत्यत्र नकारः । संपावेईत्यत्र मकारश्च । पक्षे पञ्चमवर्गादेशाभावेऽनुस्वारस्यानुस्वार एव तिष्ठनीति भावः ।।
अनुस्वारस्य पनि वा ॥ ४ ॥१॥ ३९ ॥ अनुस्वारस्य लोपो चा णमि परे । अहणं । अहएणं । तेसिणं । तेसिएणं ॥
अनुस्वारस्येति लोप इत्यनुवर्तते । णमित्यव्ययं वाक्यालंकारे वर्तते। अहं+ णमित्यत्रानेनानुस्वारलोपे अहणं । लोपाभावे तस्य स्पशेष्वित्यनेन वर्गपञ्चमवर्णादेशे अहरणं । एवं सेसिंणमित्यत्रापि ।।
च्चे जादिभ्य श्रोः।३।४।४५ ॥ जादिशब्देभ्यः परस्य प्रथमैकवचनस्य लोपः स्यात् च्चे परे। जच्चेव । तच्चेव ।
जीवच्चेव । अजीवच्चेव। ञ्चे इति-लोप इत्यस्यानुवृत्तिः । ओरित्युशब्दस्य षष्ठयेकवचनम् । उश्च प्रथमैकवचनप्रत्ययः । खेत्यव्ययं समुच्चयादौ ज श्रादिर्येषां ते जादयस्तेभ्यः । ज, त,जीव, अजीव इत्यादयो जादयः । श्राकृतिगणोऽयम् । न, उ, आवेत्यत्रोलोपे जश्व एवमन्यत्रापि ॥
इति व्यजनसन्धिप्रकरणं समाप्तम्
Sidd
अथ स्वरविकारप्रकरणम्
----etermscern -- . इ. किवणादीनां मध्यस्य स्वरस्य ॥ ३ ॥ ३ ॥ ४२ ॥ किवणादिगणपठितानां मध्यस्वरस्येकारो वा । किविणो, किवणो । परिमं, चरमं ।