________________
अथ व्यम्जनसन्धिप्रकरणम्
दो हो धः ॥ ३ ॥ ४ ॥६॥ दकारात्परस्य हकारस्य धकारः स्यात् । उद्धरो ॥
द इति-दः हः ध इति पदत्रयं क्रमेण पञ्चम्यन्तं पष्ठयन्तं प्रथमान्तभ्च । उद् + हर इत्यत्र हकारस्य हमिवाभावाद व्यञ्जनस्येति सूत्र त्याप्राप्तावनेन हकारस्य चकारो विधीयते । अहणमित्यादिषु अकारात्परस्य माभूदिति प्रथमं पदम् ॥
उदः सरछो, वा ॥ ३ । ४ । ४ ॥
उदः परस्य सकारस्य छकारो वा स्यात् । उच्छाहो । उच्छयो । पक्षे उत्साहो । उस्सयो ॥ उद इति - उद्ः सः छ इति पदत्रयं क्रमेण पञ्चम्यन्तं षष्ठयन्तं प्रयमान्त च । उद उदुपसर्गादित्यर्थः । उद् + साहो इत्यत्र विशेषविहितत्वानिरवकाशवाघ, सकारस्य छकारस्ततोऽहे व्यञ्जनस्येतिसूत्रेण दकारस्य परसवर्णञ्चकारः । एवं उद् + सयो - इत्यत्रापि । पक्षे – छकारस्य वैकल्पिकत्वात्तदभावपक्षेऽद्दे न्यमनस्येति दकारस्य परसव सकारः ॥
वर्णानामभावोऽवसानम् ॥ १ । १ । १८ ॥
स्पष्टम् ॥
वर्णानामिति -- यदनन्तरं कोऽपि वर्णो नास्ति तादृशः पदस्य वाक्यस्य वाऽन्तोऽवसानमित्युच्यते । संज्ञासूत्रमिदम् । अस्य फलन्तुम्नो नुस्वार इत्यत्रानुपदमेव व्यक्तीभविष्यति ॥
नोsनुस्वारोऽवसानव्यञ्जनयोः । ३ । ४ । १॥
अवसाने व्यञ्जने च परे मकारनकारयोरनुस्वारः स्यात् । निओइउं । संसमरह | अच्छंति ।
नोग्नुस्वार इति - नोरिति पष्टोद्विवचनम् । वर्णोपरि बिन्दुरनुस्वार उच्यते । नन्ववसानस्याभावत्वापरत्वव्यवहारो न स्यादिति चेत्सत्यम् । वुद्धिकृतपरत्वव्यवहारस्य तत्रापि सम्मतत्वात् । निश्रोइड इत्यवसानस्योदाहरणम् । सम् + सरइ = संसरईति । व्यञ्जनस्योदाहरणम् । अच्छ + न्ति — इत्यत्र तकाररूपव्यञ्जने परे नकारस्यानुस्वारः । अहे व्यञ्जन त्येत्यस्यापवादभूतमिदम् ।
स्वरे वा ॥ ३ । ४ । २ ॥ मकारस्यानुस्वारो वा स्यात्स्वरे परे । कुंथु यरं च । उसभमजित्रं च ॥
स्वर इति नरनुस्वार इति पूर्वसूत्रादनुकृष्यते । कचिदेकदेश इति न्यायेन । कुंथुम् + अरं चेत्यन्त्राकारे परे मकारस्यानुस्वारो जातः । पक्षे कुंथुमरं चेत्यपि । उसभम् + अजिनं चेत्यत्र मकारस्यानुस्वारा - भावः प्रदर्शितो वैकल्पिकत्वात् — पक्षेऽनुस्वारोऽपि ॥