________________
जैनसिद्धान्तकौमुदी संयुक्त इति-बाहुलकावुवाहरणचतुष्टये नित्यं हस्वः । अन्तिमोदाहरणद्वये विभाषया हस्वः । हस्वो पालमित्यनयोः पूर्वसूत्रादनुवृत्तिः । स्वरस्य हस्वदीर्घवृद्धय इति परिभाषया स्वरस्येति लाभः । पूर्वस्येति फलिवार्यः। बा कोसइ = अकोसह । की+ एणो = किरणो। पा+ = पत्तं । भारिया + ता= भारियत्ता । ' गच्छ एजागछिज्जा, गच्छेज्जा । हो+जा= हुजा, होजा ॥
इति स्वरसन्धिप्रकरणम् ।
4-08
अथ व्यञ्जनसन्धिः।
अहे व्यञ्जनस्य परस्य ॥३।२।२३ ॥ हभिन्ने व्यञ्जने परे पूर्वव्यञ्जनस्य परसवर्ण आदेशः स्यात् ॥ सकारो । उकसो । निचरइ ।
. इड्ढी ॥ . अह इति-नहः अहः तस्मिन् हभिन्न इत्यर्थः अत्र लाघवान् नमः पर्युदासार्थो गृह्यते न तु प्रसज्यप्रतिषेधार्थः । नमः क्रिययाऽन्वयेनाऽसमर्थसमासकल्पनेन च गौरवात् । पर्युदासो भेदः सादृश्यश्च तथा च हभिन्ने हसदृश इत्यर्थलाभः । सादृश्यश्च व्यजनत्वेनेत्यत आह हमिन्ने व्यञ्जने परे पूर्वस्येति सवर्ण इति च पूर्वसूत्रादनुकृष्येते । अहे इति किम् ? । तुम्हे अम्हे इत्यादौ मकारस्य हकारो माभूदिति । सत् + कारो। उत् + कसो । निर् + चरइ । इत्युदाहरणत्रये पर एव परसवर्णः । इध् + ढी इत्यत्र तु डकारः ढकारस्य सवर्णः ।
- त्रयाणाम् ॥४।१ । १२ ॥ __ त्रयाणां व्यञ्जनानां संयुक्तस्यादेर्लोपः स्यात् । निच्छुभइ । पुट्ठो ॥ .
प्रयाणामिति-लोपोऽन्यतरस्येति सूत्राल्लोपः । चोरवणिग्भ्यामित्यत आदेः। सिस्सादिष्वितिसूत्रासंयुक्तस्येत्येतत्पदनयमनुकृप्यते । व्यञ्जनानामिति विशेष्यं विशेषणबलालभ्यते । शास्त्रेषुव्यन्जनद्वयस्यैव संयोग उपलभ्यतेऽसो यत्र त्रयाणां न्यजनानां संयोगस्तत्र त्रयाणामादिव्यञ्जनस्य लोप इत्यर्थः । निर् + च्छुभईत्यत्रादिम्य जनस्य रेफस्य पुच्छ ठो इत्यत्रादिव्यसनस्य चकारस्य च लोपः ॥
अपूर्वस्य ॥४।१।१३॥ संयुक्तस्यादेर्लोप: स्यात् संयुक्तमपूर्वं चेत् । कमइ । किणेइ । अपूर्वस्य किम् । निकमई ।
विकेह ॥ अपूर्वस्येति-पूर्ववत्पदन्त्रयस्यानुवृत्तिः । अपूर्वस्येत्यत्र न पूर्वो यस्मात्तदपूर्वमिति विग्रहस्तेन संयुक्तमपूर्व चेदिति फलितार्थः । नि+ कमईत्यत्र संयुक्तप्त्य निपूर्वकत्वात् वि + केहेत्यत्र विपूर्वकस्वाञ्च न लोपः ॥