SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ কােমবে क्रमेणेति लाभः । तथा च तकारात्परयोरिदुतोश्चकारः । रेफात्परयोर्जकारः । हकारात्परयोश्च मकार इत्यर्थः । पति + अप्पिणइ इति प्रथमोदाहरणेऽनेनेकारस्य चकारे तकारस्य परसवर्णः । परि + उवासणेति द्वितीय इकारस्य जकारे रेफस्य परसवर्णः । अहि + अयणमिति तृतीय इकारस्य जकारे,हकारस्य परसवर्णे झकारः ।। सिस्लादिषु संयुक्तस्य वा तस्मिन्पूर्वस्य दीर्घः।४।१।११॥ एषु संयुक्तस्या लोपो वा तस्मिन्सति पूर्वस्वरस्य दीर्घः स्यात् । सीसो, सिस्सो । दूसहो, दुस्सहो । णीणेइ । वीसमइ, विस्समइ । आसासि ॥ आसो, अस्सो . आसत्थो, अस्सत्यो । आभक्खाणं, अभक्खाणं ॥ सिस्सादिष्विति'चोरवणिग्भ्यामिति सूत्रादादेरित्यस्य 'लोपोऽन्यतरस्येति' सूत्रालोप इत्यस्य चानुवृत्तिः । सिस्सादिषु-सिस्सादिगणपठितेषु शब्देषु धातुषु च सिस्सो, दुस्सहो, णिपणेह, विस्समइ, अस्सासिन, असो, असत्थो, अब्भवाणं, मगुस्सो, लुकखो, अमावस्सा, जिब्मा एते सिस्सादयः । आकृतिगणोऽयम् सूत्रत्यै कस्मिन्प्रयोगे सत्प्रवृत्चवारसकरलोपदोघयोः 'प्रवृत्तौ न पुनस्तथा । नामक्खाणमित्यादिषु आभक्खाणमित्येवरूपं न त्वाभाखाणमित्यपि शास्त्रेषु तथानुपलब्धेः प्रयोगानुसारित्वाव सूत्रप्रवृत्तः। खरादस्य यडू बहुलम् । ४.११५६ ।। खरात्परयोरकाराकारयोर्यडागमो बहुलं स्यात् ॥ विपरियासो, विपरित्रासो । पलियं को, पलिअंको॥ स्वरादिति-अकारणाकारस्यापि ग्रहणादाह अकारकिारयोरिति विपरि + आसो इति स्थिते इकारात्परस्याकारस्य यडागमे टिस्वादाकारस्यायवयव विपरियासो । यडागमाभावे विपरिआसो एवं पलि + अंको इत्यत्र यडागमे पलियंको पक्षे पल्लको ॥ . स्वराद्यस्य. स्वरे ॥३।४।२५ ॥ स्वरात्परस्य यकारस्य -लापो बहुलं स्यात् स्वरे परे । जिइदिए । गइंदों ॥ स्वरादिति-बहुलं लोप इत्यनयोः पूर्वसूत्रादनुवृत्तिः । जिय + ईदिए इस्यत्रेकाराकारयोर्मध्ये स्थितस्य यकारस्य लोपः । गय + इंदो इत्यत्राकारद्वयमध्यस्थितस्य यकारस्य लोपः । यलोपे सत्यवशिष्टस्याफारस्य लोपोऽन्यतरस्येति सूत्रेण लोपः । संयुक्ते ॥३॥ ३ ॥२॥ संयुक्त परे पूर्वस्य स्वरस्य हस्वो बहुलं स्यात् । अक्कोसइ । किएणो । पत्तं । भारियत्ता । गाच्छज्जा । गच्छेज्जा । हुज्जा । होज्जा ॥
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy