________________
जैन सिद्धान्तकौमुदी
लोपोsन्यतरस्य । ३ । ४ । २४ ॥
स्वरयोरव्यवधानेऽन्यतरस्य लोपो बहुलं रयात् । इक्कसीई । तहारी । तेसी । तत्थिमं । नोवलभामहं । रमामहं । जिणामहं । नस्सामहं ||
I
1
लोप इति — अनानुक्तस्य पूर्वसूत्रादनुवृत्तिः । अन्यतरस्येति — पूर्वस्य वा परस्येत्यर्थः । प्रयोगेषु यथा यथोपलभ्यते तथा तथा पूर्वस्य वा परस्येति निर्धार्य तेन विनिगमनाविरहाद्विपरीतलोपरतु न शक्यः । इक + असीइ । तह + इन्ति । ते + असी । इत्युदाहरणन्त्रये परस्य स्वरस्य लोपः । तत्थ + इमं । दस० ६, ९; नोवलभाभि + अहं । उत्त० १९, १३; रमामि + अहं । ०१९, १४; जिणामि + अहं । उत्त० २३,३६; नस्सामि + अहं ! उत्त०२३, ६१; इत्युदाहरणपश्व के पूर्वस्य लोपः ॥
:
पूर्व एकः पूर्वपरयोः | ३|२|२५||
इदुतोरसवर्णे रवरे परे पूर्वस्य सजातीय श्रादेशः स्यात् । पल्लेको । समभितो ।
पूर्व इति - पूर्वस्येति पूर्वसूत्रादनुवर्त्तते । इदुतोदित्य तकारः रपष्टार्थो न तु दीर्घादिनिवृत्यर्थः तेनेदुतो रित्यनेन हस्वदीर्घयोरिकारेकारयोरुकारोकारयोश्च ग्रहणम् । पूर्वशब्देनोपान्तत्वात्तथान्यव्यवहितं पूर्वस्यैव बोध्यम् । तेन पूर्वंशब्देन यत्किश्विदादाय न पकारादिसदृशरयापत्तिः । साजात्यश्व पूर्ववर्णवृत्त्यानुपूर्व्या न तु वर्णत्वादिना तेन नापत्तितादवस्थ्यम् || बाहुलकात्पंज लिउडेत्यादौ प्रकृतिभाव एव । पलि + अंको इत्यत्र लकारोत्तरवर्त्तीकारस्य लकारादेशः । समनु + इतो इत्यत्र नकारोत्तरवकारस्य नकारादेशः ॥
समानयोः पूर्वस्य सवर्णः । ३।२।२२ ॥
समानवर्णद्वयाव्यवधाने पूर्वस्य स्वसवर्ण आदेशः स्यात् । भुमि ॥ समानयोरिति-सदृशयोरित्यर्थः सादृश्यश्वानुपूर्व्या तथा चैकानुपूर्वीकवर्णद्वयस्याव्यवधानमित्यर्थः । पदव्यवच्छेदार्थं वर्णेति पूर्वस्येति रथानषष्ठी पूर्वस्य स्थाने इत्यर्थः । सवर्ण इति कस्य सवर्णं इत्याकांक्षायामाह - स्वसवर्ण इति स्थानिना सह गरिहसम्बन्धात्था निसवर्ण एव भवतीति भावः । द्वयमिति फलितार्थं व्यञ्जनत्रयसमभिव्याहाराभावात् । सावर्ण्यभ्य वर्गेविति सूत्रे दशितम् । अभि + उट्ठेमि इत्यन्त्रेवारस्य भकारे जाते पूर्वभकारस्य सवर्णो वकारः ।
तरहेभ्यञ्चजमा इदुतोरसवर्णे स्वरे | ३ | २|२४||
तकाररेफहकारेभ्यः परयोरितोः क्रमेण चजझा आदेशाः स्युरसवर्णे स्वरे परे । पच्चपिणइ । पज्जुवसिंया । श्रज्झयणं ॥
तरद्वेभ्य इति - अनवर इति स्थाम्यादेशानां यथासंख्यत्वाभावेऽपि निमित्तादेशानां यथा संख्यस्थेन