________________
अथ स्वरसन्धिप्रकरणम्
SHEXT
वृद्धिरतः स्वरे परस्य सवर्णः । ३ । २ । ३० । अकारात्स्वरे परे पूर्वपरयोः परस्य सवर्णा वृद्धिरेकादेशः स्यात् ॥ जिगसरो । चाउलोदगं । समणोवासगो ।
वृद्धिरिति — पूर्वसूत्रात्पूर्वपरयोरित्यस्यानुवृत्तिः । विशेष्यानुरोधात् सवर्णस्य स्त्रीत्वम् । जिण + ईसरो इत्यन्न पूर्वपरयोरकारेकारयोः स्थाने परश्येकारस्य सवर्णा वृद्धिरेकारः । आकारादेर्वृद्धित्वेऽपि नेकार सावर्ण्यमिति न जिणासरो अपितु जिणेसरो । चाउल + उद्गमित्यत्रोकारस्य सवर्णा वृद्धिरोकारः । एवं समरण + उवा सगो इत्यत्रापि ।
अदिदुतः सवर्णे दीर्घः । ३ । २ । ३१ ॥
अकारादिकारादुकाराश्च सवर्णे स्वरे परे पूर्वपरयोदीर्घ एकादेशः स्यात् || गमणागमणे । ईति । भारदयो ||
श्रदिदुत इति—चत्र समाहारद्वन्द्वः । श्रत एवैकवचनम् । तपरकरणमसन्देहार्थे न तु समानकालग्रहखार्थम् । तेन।दीर्घाणामप्याकारादीनां प्रहरणम् । एकारादेरपीकारादिसावर्थ्यान्तस्मिन्परे पूर्वपरयोर्दीर्घ एकादेशः स्यादित्यतः स्वरादित्यनुक्त्वाऽदिदुत्त इत्युक्तम् ॥ गमागमण इति - अनाकाराकारयोः स्थाने दीर्घ एकादेशः । एवं अ + इति । भाणु + उदयो इत्यत्रेकारयोरुकारयोश्च स्थाने दीर्घादेशः ॥
स्वरयोरव्यवधाने । ३ । ४ । २१ ॥
स्वरयोर्व्यवधानाभावे प्रकृतिभावो बहुलं . स्यात् ।
अगरो । श्रई । अइही । श्रउज्झा | यारो | पंजलिउडा |
स्वरयोरिति प्रकृतिभावो बहुलमिति पूर्वसूत्रादनुवर्त्तते । बाहुल्यश्च " कचित्प्रवृत्तिः कचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति" बाहुलकमित्यत्र स्वार्थे तेन बहुलमित्यर्थः । तथा च रूढशब्दघटकस्वरस्य तद्घटकस्वरेण नित्यं प्रकृतिभावः । समासादौ त्वसवर्णयोः स्वरयोर्यथाप्रयोगं सः । सवर्णयोस्तु प्रायो दीर्घ एव । असवर्णेऽपि प्रायोतः स्वरे परे वृद्धिरेव ! केवल मिकारोकाराभ्यामेवासवर्णे खरे परे प्रायः प्रकृतिभावः ।
?