________________
जैनसिद्धान्तकौमुदी
समानयोर्विरोधे परम् । १ । १ । ५ ॥ तुल्यबलयोर्युगपदेकत्र प्रसङ्गे परं कार्यं स्यात् ।
समानयोरिति - समानस्तुल्यबलः अन्यत्रान्यत्र लब्धावकाश इति यावत् । विरोध एकत्र तयोर्द्वयोर्युगपत्प्राप्तिः । एतेन निरवकाशस्याधिकवलस्य व्यवच्छेदः कृतः
तथा तुल्यबलस्याविरुद्धस्य च
निवारणं कृतम् ।
35
अन्त्यस्य षष्ठ्याः ॥ १ । १ । ६ ॥ षष्ठयन्तस्य क्रियमाणं कार्यमन्त्यस्य बोध्यम् ।
अन्त्यस्येति—कार्य मित्यध्याहृतम् पष्ठ्या इत्यत्र स्थान्यादेशभावः षष्ठयर्थः । तेन क्रियमाणमिति लभ्यते प्रत्ययग्रहणे तदन्तग्रहणमिति परिभाषया षष्ठ्यन्तश्येति लभ्यते । यत्र स्थानषष्टी विद्यते तत्रैवारय सूत्रस्य प्रवृत्तिर्न त्ववयवावयविभावार्थकषष्ठीस्थले तेनागमेऽस्य न प्रवृत्तिः । षष्ठ्यन्तस्येत्यस्य षष्ठयन्सपदबोभ्यस्येत्यर्थः ।
अनेकवर्णसित् ॥ १ । १ । ३ ॥
अनेकवर्णादेशः सिदादेशश्च सर्वस्य बोध्यः ।
अनेकवर्णेति --- आदेश इत्यध्याहारलब्धः । अन्त्यस्य षष्ठ्या इत्यस्यापवादः । श्रनेको वर्णो यत्रेतिबहुव्रीहिः । सकार इद्यत्र स सित् अनेकवर्णश्च सिञ्चेति समाहारद्वन्द्वः तेनैकवचनं सिद्ध्यति । न चेतरेतरयोगेऽपि सौत्रत्वादेकवचनं सिद्ध्यतीति वाच्यम् । सिद्धगत्यैव निर्वाहे सौत्रत्वकल्पनाया व्यर्थत्वात् । सर्वस्येति पूर्वसूत्रादनुवर्तते ॥
afaaraौ ॥ १ । १४७ ॥
टिकितौ यस्य विहितौ तस्याद्यन्तौ भवतः ।
टकिताविति - कश्च टकौ । टकावितौ ययोस्तौ टकितौ । श्रदिश्च अन्तश्चाद्यन्तौ । टकारेऽकार उच्चारणार्थः । अत्र क्रमेणान्वयाट्टित्कार्यमाद्यवययो भवति चित्कार्यमन्त्यावयवो भवति । ननु एक धर्मावच्छिन्न एकरूपेणैकसम्वन्धेनान्वयरूपस्य साहित्यस्यान्त्राभावेन कथं द्वन्द्वसम्भवः टित आदौ कितोऽन्तेऽ न्षयादिति चेत्सत्यम् | शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जयेत्यादौ लोके समसंख्यानां यथासंख्येनैवान्वयस्य दृष्ट्श्वेन व्याकरणेपि तथैव सिद्धौ पाणिनीयतन्त्रे यथासंख्यसूत्रारम्भसामर्थ्याद् व्याकरणे साहित्याभावेपि द्वन्द्वो भवतीति ज्ञापनात् ।
॥ इति परिभाषा प्रकरणम् ॥