________________
परिभाषाप्रकरणम् खदीर्घवृद्धिशब्दाना' हखदीर्घवृद्धिशब्दैविहितहस्वदीर्घवृद्धिपु लक्षणया हरदीर्घवृद्धिशब्दैर्यत्र हस्वदीर्घद्धीनां विधानं तत्र स्वरस्येति पदमुपतिष्ठते इत्यर्थसिद्धौ पदोपस्थापकत्वमस्य सिद्ध्यति इतिपदस्योपतिष्ठत ति पदस्य चान्याहारः । हस्खदीर्घवृद्धिशब्दैरित्यस्याभावे भगवया भगवओ इत्यादाविणस्सयोर्विधीयमानस्यागरौकारस्यापि दीर्घघृद्धिरूपत्वेन तत्रापि स्वरस्येति पदोपस्थित्या "इणस्सयोः स्वरस्यैवादेशापत्तेः। ..
प्रत्ययस्य लोपः सर्वस्य ।१।१।२॥ .. .. .
प्रत्ययस्थानिको लोप सम्पूर्णस्थाने बोध्यः ॥ । प्रत्ययस्येति-षष्ठी निर्दिष्टत्वादन्त्यस्य प्राप्ताविई सूत्रम् । तथा चान्त्यस्य षष्ठ्या. इति सूत्रस्यापवादः । प्रत एष हेरत इति सूत्रेण विधीयमानो लोपोऽन्त्यमात्रस्य न । किन्तु हेः समुदायस्यैव । तत्रासति. तात्पर्य त्यपि बोध्यम्। अत एव यत्र प्रत्ययस्यान्त्यमात्रलोपे तात्पर्यमस्ति तत्र..न समुदायलोपशंकावसरः । त्पर्यज्ञानं च प्रकरणादिना बोध्यम् । ननु अवयवे प्रत्ययत्वाभावेन तत्स्थानिकलोपस्य सुसरां प्रत्ययस्थानिकत्वाभावेनैवास्य सूत्रस्याप्राप्त्या व्यर्थमेवेदं सूत्रमितिचेन्न । न हावयवेऽपर्याप्तस्य समुदाये पर्याप्तिरस्तीति नेयमेनाबयवेऽपि प्रत्ययत्वपर्याप्तिसम्बन्धस्य सत्वेन प्रत्ययस्थानिकत्वानपायात् । तथा च प्रत्ययावयवस्य राप्तो लोपः तवयवघटितसमुदायस्यैव स्यादिति फलितार्थः । (एतेन प्रत्ययस्थानिक इत्यस्य प्रत्ययत्वपर्याप्तस्थानिताक इत्यर्थः तथा च प्रत्ययावयवस्य लोपवाधनार्थमिदं सूत्रमित्यसंगतमेव प्रत्ययावयवे नत्मयत्वस्याभावेन तत्रैतत्सूत्राप्रवृत्तेः पर्याप्तिसम्बन्धेन समुदाय एव प्रत्ययत्वस्य सत्त्वादित्यपास्तम्)। अवयवे पर्याप्त्याऽवर्तमानस्य धर्मस्य समुदायेप्यसम्भवात् प्रत्येकमिलितस्यैव समुदायरूपत्वात् । तदुक्तं महाभाष्ये 'एकस्तिलस्तैलदाने यतः समर्थोऽतस्तत्वार्यपि ददाति । एका च सिकता न समर्थाऽतस्तत्वार्यपि न ददातीति ।" तथा च प्रत्येकावृत्तः समुदायावृत्तित्वमिति सिद्धम् । प्रत्येकापर्याप्तस्यापि समुदाये पर्याप्तिरस्ति । अन्यथैकस्मिन् भृत्येऽवर्तमानस्य शिविकावहनसामर्थ्यरय तत्समुदायेपि वृत्तित्वं न स्यादिति पक्षाश्रयणे तु प्रत्ययपदस्य प्रत्ययावयवे लक्षणया प्रत्ययावयवस्थानिकलोपः तद्धटितसमुदायस्यैवेत्यर्थो बोध्यः ॥ . .
.. .. स्वराणामन्त्यात्परो:मित् ॥१।१।४॥ . . ..... स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात्परो मिदागमः स्यात् ॥: : - स्वराणामिति-निर्धारणे पष्ठी । तेनान्त्यस्वर इति लभ्यते सजातीयस्यैव निर्धार्यमाणत्वादित्युक्तमेव । मकार इत् यस्मिभिति मित् । इणाणेहीसीसूनां ममिति -सूत्रेणेणादेर्ममागमे विहितेऽनेन तस्यान्त्यवरात्पर इति स्थाननिश्चये जिणेण मित्यादिः सिद्ध्यति । आगमस्य किद्भावेप्यन्त्यावयवत्वसिद्धौ व्यर्थमेतदिति तु न रायं लभादेर्ममागमे सफलमेतत् । तत्र ममागमे भकाररय स स्यात्तथाच लभेत्यादिरूपासिद्धेः ॥