Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
विभातिप्रकरणम् .
इणाणेहीसीसूनां ।४।२।१४॥ . ... ... एपां ममागमो वा स्यात् । जिणेणं, जिणेण । जिणेहिं, जिणेहि । . . . इणेति-इसणाश्च श्रणश्च इहिश्च इसिश्च इसुश्चेति द्वन्द्वः । इणादयः पञ्च सुष्प्रत्ययाः । तत्रेणेति तृतीयैकवचनम् । अणेति षष्ठीबहुवचनम् । इहीति तृतीयाबहुवचनम् । इसीतिसवणामोत्तरषष्ठीबहुवचनम् । इसु इति सप्तमीबहुवचनम् । मम् वा इति पदद्वयं पूर्वसूत्रादनुवर्त्तते । जिण-+ इणेति तृतीयैकवचनेऽनेनममागमे तस्य चान्त्यस्वरात्परत्वे मकारस्यानुस्वारेऽकारेकारयोः परसवर्णे जिणेणं । ममागमाभावे जिणेण । एवं तृतीयाबहुवचने जिणेहिं जिणेहि इतिरूपद्वयम् ॥ . .
... . . अएतः स्सो नाम्नः । ४।३१.३० ॥ . : . नाम्नः परस्य चतुर्थेकवचनस्य स्लादेशो वाऽस्त्रियाम् । जिणस्स, जिणाए । जिणाणं, जिणाण । . :: . अएतं इति-"वा स्त्रियामिति पूर्वसूत्रादनुवर्तते । अएत इति षष्ठ्यन्तम् । नाम्न इति पञ्चम्यन्तम् । अएदिति चतुर्येकवचनप्रत्ययस्तत्र तकार उच्चारणार्थः । जिण + अए इत्यत्रानेन स्सादेशे जिणस्स । स्सादेशाभावे जिणाए । जिण+ अणेत्यत्र ममागमे सवर्णदीऽनुस्वारे जिणाणं । ममागमाभावे जिणाण ॥
अतोऽएदतोतोरबाही क्वचित् । ४ । ३ । ३१ ॥ अकारान्तानाम्नः परयोश्चतुर्थीपञ्चम्येकवचनयोः क्रमेणायाही आदेशौ स्तः कचिदस्त्रि
___ याम् । जिणाय । जिणाहि । 'अत इति-विशेषणं तदन्तस्येति परिभाषयाऽत इत्यस्याकारान्तादिति लाभः । वा स्त्रियां नाम्न इत्यस्यानुवृत्तिः । समानां स्थान्यादेशादीनां यथासंख्यं स्यादिति न्यायादएतः अयादेशः अतोतः अह्यादेशः स्यादित्यर्थः । एतावादेशौ न सर्वत्र भवतः किन्तु कचिदेव शास्त्रे तथाप्रयोगदर्शनादुक्तं कचिदिति । अनेकवर्णत्वात् सर्वादेशः । जिण + अए इति स्थितेऽनेनायादेशे सवर्णदीर्घे जिणाय । जिण+ अतोत् इति स्थितेऽतोतः ब्रह्मादेशे सवर्णदीघे जिणाहि । अस्त्रियामित्यनुवर्तते स्त्रीभिन्ने पुंसि क्लोवे चेति तदर्थः । . .... अतोतोऽतः।३।४।६१ ॥ अकारान्तानाम्नः परस्य पञ्चम्येकवचनस्यातोतोऽन्त्यस्य लोपो वा स्यात् । जिणा,
जिणाओ । जिणेहितो । जिणस्स । जिणाणं, जिणाण । . . . अतोत इति-अन्त्यस्य षष्ठ्या इति परिभाषयाऽन्त्यस्येति लाभः । अत इत्यस्य विशेषणत्वाद्विशेषणं तदन्तस्येत्यनयाऽकारान्तादिति लाभः । लोपो वेति पदद्वयमनुकृप्यते। जिण+ अतोदितिस्थितेऽनेनान्त्यस्यौकारस्य लोपे तकारस्य यकारे तस्य लोपे सवर्णदीचे च जिणा । लोपाभावे च जिणाओ। कचिज्जिणाहि इत्युक्त.

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77