Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
अथ विभक्तिप्रकरणम्
तन्त्र पुल्लिगशब्दा
अविभक्ति नाम । १।१।२४ ॥
विभक्तिरहितं शब्दस्वरूपं नामसंज्ञं स्यात् । अविभक्तीति-विभक्तिच सुप्त्यादिरित्युक्तं प्राक् ।नास्ति, विभक्तिय॑स्य वदविभक्ति-विभक्तिरहितमित्यर्थः विशेषणस्य, नपुंसकत्वासदनुरोधेन विशेष्यं शब्दस्वरूपमध्याहियते । नचैवं धातोरपि नामत्वं स्यादिति वाच्यम् । सत्यपि नामत्वे तस्मान नामविभक्तयो भवन्ति किन्तु निरवकाशत्वात्यादय एव प्रत्यया भवन्ति । विभकिसहित- . स्यापि नामसंज्ञायां विभक्तचन्तादपि पुनर्विभक्तिप्रत्ययः स्यादित्यत आहाविभक्तीति शब्दस्वरूपं चार्थवदेव नस्वर्थशून्यमर्यवाहणपरिभाषया तेन घडो पडो इत्यादौ प्रत्येकवर्णस्य धकारादेर्न नामसंज्ञा किन्तु घड इति समुदायस्यैव । नामसंझायाः फलन्तु सत्या नामसंज्ञायां तस्मात् सुविभक्तिः । - उदन्मेदिणे एदणातोदिहितोस्साएमीसवः सुप् । १ । १ ॥ २५ ॥
उत् अत्, म इन्, इण इहि, अएत् अण, अतोत् इहितो, स्स अण; मि इसु, एते सुप संज्ञाः स्युः । तत्र उत् ; अत् इति प्रथमा । म, इत् इति द्वितीया । इण, इहि इति तृतीया । अएद , अण इति चतुर्थी । अप्रोत्, इहितो इति पंचमी । स्स, अण इति षष्ठी । मि, इसु
इति सप्तमी। उदिति-उब अब मश्च इव इणश्व इहिश्च भएच अणश्च अतोच इहिंतोश्च स्सश्च अणश्च मिश्च इसुश्चेतिद्वन्दः । उदादावन्त्यतकारोऽसन्देहाथः । द्वितीयकवचने मकारेऽकार उच्चारणार्थः । संस्कृतवद्विवचनमत्र नास्ति । एकातिरिक्तस्यैव बहुत्वेन बहुवचने तदन्तर्भावाद्विवचनस्यानर्थक्यात् । विभक्ष्यस्तु संस्कृतवत्सप्तैव । तथाच सप्तैकवचनप्रत्ययाः सप्त बहुवचनप्रत्ययास्तेषां सुविति संज्ञा विधीयतेऽनेनेति ॥
सुपश्च । १।१।३३ ॥
सुपः प्रथमादिक्रमेण द्वौ द्वावेकवचनबहुवचनसंज्ञौ स्तः। · क्रमेणेति-प्रथमादिषु सप्तविभक्तिषु पूर्वोचरितमेकवचनसंज्ञं स्यात् पश्चादुश्चरितं बहुवचनसंज्ञस्यात् यथा इत् भत्, अत्रोतः प्रथमोपरितत्वादेकवचनसंझा । अतः पश्चादुश्चरितत्वाद्वहुवचनसंज्ञा । एवं सप्तस्वपि ।। .

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77