Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
जैनसिद्धान्तकौमुदी ............. विशेषणमिति-अनः शास्त्र विशेषणत्वेन यदुपादीयते तदेव विशेषणपदेनाभिधीयते । विशेषणं व्यावर्तकम् । तथा च नान्न इत्याद्यनुवृत्तौ तद्विशेषणमदादिपदं तदन्तस्य संज्ञाकरणेनादन्तादिबोधकं भवति
अतएव तत्तत्स्थलेऽभेदान्वयः सम्पद्यते यथाऽदितः पुंस्यत इत्यादि सूत्रेऽत इत्यनेनादन्तस्य ग्रहणे . ४ . 1. नामपदस्याभेदान्वोऽदन्ताभिन्ननाम्नः परस्येत्याद्यर्थो लभ्यते । :: :: ::
. . . .. .. . . सुप्त्यादि. विभाक्तिः ॥१११:२८॥... :: ... ... . . . . . . . .. सुपू त्यादि च विभक्तिसंशे स्तः ॥ . , . . . . . . . .'
सुप्त्यादीति-अत्र सुप्पदेनोदादीवन्तो गृह्यते। त्यादिपदेनाज्ञाप्रवर्तनावर्तमानभूतभविष्यदर्थको प्रत्ययाः । अन्यत्र तु त्यादिपदेन तिन्तिसिहमिमव एव गृह्यन्ते तेन त्यादिपदेनाज्ञाद्यर्थकं प्रत्ययमुपादाय तस्मिन् परे विधीयमान प्रत्यया न विधेया इतिसिद्धम् ।।उक्तसुप्यादेविभक्तिसंज्ञायाः फलन्तु 'अविभक्ति नामेति' सूत्रेण तदन्तस्य नाम: संज्ञानिषेधः तत्र विभक्तिरहितस्यैव नामसंज्ञाविधानात् । .
.. . इति संज्ञाप्रकरणम् । इतीति-सन्धिकार्योपयोगिनीनां व्यापिकानां च संज्ञानां प्रकरणं समाप्तमित्यर्थः। ..
sccooccered
.. अथ परिभाषाप्रकरणम् ।...
. . . : .. ....
स्वरस्य हखदीर्घवृद्धयः ॥ १.१ १.१.॥ . . हवदीर्घवृद्धिशब्दैर्यत्र हस्वदीर्घवृद्धयो विधीयन्ते तत्र खरस्येतिपदमुपतिष्ठते ।
स्वरस्येति-इदञ्च न विधायकं तत्तत्सूत्रेणैव ह्रस्वादिसिद्धेर्नचानेनैव हस्खादिसिद्धौ माऽस्तु तत्तत्सूत्रमिति वाच्यम्।सामान्यतया तद्विधानेहस्वखराणामेव विलयापत्तेः । नापि नियामकम् । नियामकत्वं हि द्विविध स्वरस्यैव हस्वदीर्घवृद्धय इत्येकम् । स्वरस्य हस्वदीर्घवृद्धय एवेति द्वितीयम् । तत्र व्यञ्जनस्य तदसंभवादाद्य व्यर्थम् । द्वितीयमपि न सम्यक् स्वरलोपादिविधायकस्य वैद्यर्थ्यापत्तेः। नचेष्टापत्तिरिति वाच्यम् । बहुलक्ष्यासिद्ध्यापत्तेः । नापि संज्ञासूत्रं तत्तसूत्रेणैव खरस्य हस्खादिसंज्ञासिद्धः । न चानेनैव तन्निर्वाहः सम्भवति स्वरसामान्यस्य संज्ञात्रयकरणेऽनिष्टापत्तेः । नापि प्रतिषेधक नबोऽश्रुतेः । नाप्यधिकारसूत्रमुत्तरत्रानुवृत्त्यभावाद्वैयापत्तेः । नाप्यतिदेशः वतिघटितत्वाभावात् , किन्तु परिशेषात्परिभाषासूत्रमिदम् । षड्विधान्येव हि सूत्राणि. संज्ञा च परिभाषा च विधिनियम एव च ।। अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणमित्युक्तः । तथाच

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77