Book Title: Jain Siddhanta Kaumudi Purvardha
Author(s): Ratnachandra Maharaj
Publisher: Nagrajji Nahar Jaipur
View full book text
________________
20
-
जैनसिद्धान्तकौमुदी स्वराणां मध्ये योऽन्त्यः स आदियस्य सं टिसंज्ञः स्यात् ।। स्वराणामिति-अत्र निर्धारणे पष्ठी तेन मध्ये इत्यस्य लाभः । तदन्त्योऽपि स्वर एव ग्राहो न तु व्यञ्जनम् । सजातीयस्यैव निर्धार्यमाणत्वात् । अंत एव गंवा मध्येऽन्त्यमानयेति प्रयोगे प्रयुज्यमानो गामेवानयति न महिषादिकमिति । न हि विजातीयस्य निर्धार्यमाणत्वे पष्ट्या अपि सम्भवः । अन्त्यादिरिति यद्यप्यत्र सामान्ये नपुंसकमेवोचितं तथापि शब्दशास्त्रे शब्दत्यैव प्राधान्यं सूचयितुमध्याहृतशब्दरूपविशेष्यमपेक्ष्य पुंस्त्वस्यापि सम्भवेनाऽन्त्यादिरित्युक्तम् । तत्रादिः क्वचित्प्रधानं कचिच्चातिदेशिकः यथा छिन्द्धातोडेंजप्रत्यय इन्भागस्य टिसंज्ञा तत्रादिर्मुख्यः । खाधातोर्डजप्रत्यय आकारस्य टिसंज्ञा तत्रादिरातिदेशिकः असहायत्वात् ।
अप्रयुज्यमानः सफल इत् । १।१ । १६ ॥ लौकिकप्रयोगेषु न प्रयुज्यमानः किञ्चित्कार्य विधातुं प्रत्ययादावनुबद्धो वर्ण इत् संज्ञः स्यात् ॥
अप्रयुज्यमान इति-इत्संज्ञकस्यापि प्रत्ययादौ प्रयुज्यमानत्वादप्रयुज्यमान इत्यसंगतमित्याशंक्याहप्रयोग इति । प्रकृतिप्रत्ययादेरपि प्रयोगत्वात्तत्र प्रयुज्यमानत्वस्यैव सत्त्वेन दोषस्तदवस्थ एवेत्याशङ्कायामाह लौकिकेति-लौकिकत्वंचार्थबोधनाय प्रयुक्तत्वं शास्त्रे तु शब्दानां शब्दपरत्वाददोषः । प्रकृत्यादावपि स्थायित्वा- भावात् करिष्यमाणेत्संज्ञकस्योचारणं व्यर्थमित्याशङ्कायामाह किंचित्कार्य विधातुमुपात्त इति अलौकिक प्रयोग इति शेषः । अलौकिकश्च साध्यावस्थापन्नः प्रकृतिप्रत्ययादिः । किञ्चित्कार्य-टित्त्वकित्त्वादि तत्सम्पादनेन साफल्यमस्य वोध्यम् ।।
प्रसक्तस्यादर्शनं लोपः॥ १ ॥ १ ॥ १७ ॥ . .. .. . .. ... . स्पष्टम् । .....
प्रसक्तस्येति-प्राप्तस्येत्यर्थः न तु स्थितस्यैवेत्यर्थः तेन तार्थकस्याविद्यमानत्वेऽपि "आसणाओ पासई" इत्यादौ चार्थकान्तस्य शब्दस्य प्राप्त्यैव तदभावस्य लोपसंज्ञायां पञ्चमी सिद्ध्यति अदर्शनं-दर्शनाभावः । अभावायऽव्ययीभावः
. इतः ॥३।४।१२ ॥ . .
- इत्संज्ञकस्य लोप: स्यात् ।। इत इति-तीपि न्तस्येति सूत्रांल्लोपं इत्यनुवर्तते नन्वित्संज्ञां विधाय लोपरणापेक्षयेत्संज्ञकत्वेनोहिष्टानां लोप एवं विधीयताम । किं लोपशास्त्रस्य परमखनिरीक्षगोनेति चेत्र क्लिानिमार्गमा आवश्यकत्वात् ।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77